________________
उपमितौ तृ. ई-प्र.
॥२०७॥
॥ १७७ । नरपतिरुवाच-धर्म यतो न कुर्वन्ति, स हेतुः प्रतिपादितः । भगवन्नाशितोऽस्माकं, भवद्भिः संशयो महान् ।। १७८ ॥ जघन्याअत्रान्तरे तु सुबुद्धिमत्रिणाऽभिहितं-भगवन् ! य एते जघन्यमध्यमोत्कृष्टोत्कृष्टतमरूपतया चतुर्भेदाः पुरुषाः पश्चानुपूर्व्या भगवद्भिः ॥ स्वरूपतो व्याख्याताः एते किमेवस्वरूपाः प्रकृत्यैव भवन्ति आहोस्विदेवंविधस्वरूपजनकमेतेषां किश्चित्कारणमस्तीति कथयन्तु भगवन्तः,
कादि भगवानाह-महामबिनाकर्णय- तावत्प्राकृतमिदमेतेषां स्वरूपं, किं तर्हि ?, कारणजं, तत्र ये तावदुत्कृष्टतमाः पुमांसः प्रतिपादिताः ते केवलमुत्कृष्टेभ्यो निष्पन्नवायोजनतया भिद्यन्ते, न परमार्थेन, यतस्त एवोत्कृष्टा यदावाप्य मनुष्यभावं विज्ञाय भवस्वरूपमाकलय्य मोक्षमार्ग तदासेवनेन दलयित्वा कर्मजालं निराकृत्य स्पर्शनेन्द्रियं निर्वृति प्राप्ता भवन्ति तदोत्कृष्टतमा इत्यभिधीयन्ते, निर्वृतौ च तेषां | |स्वरूपेणावस्थानं, तामवस्थामपेक्ष्य न किञ्चिजनकमस्ति, तेनोत्कृष्टतमानां पुरुषाणां न कश्चिजनको जननी वा, एते पुनर्जघन्यमध्यमोस्कृष्टाः पुरुषाः संसारोदरविवरवर्तिनः स्वकर्मविचित्रतया जायन्ते, तस्मात्स एव कर्मविलासस्तेषां जनकः, तच्च कर्म त्रिविधं वर्तते, तद्यथा-शुभमकुशलं सामान्यरूपं च, रात्र या कर्मपद्धतिः शुभतया सुन्दरी सा शुभसुन्दरी मनुष्यत्वेनोत्कृष्टानां जननी, या पुनरकुशलकर्ममाला (सा) जघन्यमनुष्याणां जननी, या पुनः कुशलाकुशलतया सामान्यस्वरूपा कर्मपद्धतिः सा मध्यमनराणां जनयित्री वि-17 ज्ञेयेति, मनीषिणा चिन्तितम्-अये ! न केवलं गुणैश्चरितेन चैतेऽस्माकमुत्कृष्टमध्यमजघन्याः पुरुषाः समानरूपा भगवद्भिर्व्याख्याताः, किं तर्हि ?, जननीजनकव्यतिकरोऽपि अस्माकमेतैः सह तुल्य एव भगवता दर्शितः, तस्मान्नूनमेतद्रूपैरेवास्माभिर्भवितव्यम् , तथाहि| योऽसौ भवजन्तुर्मा निराकृत्य निर्वृति प्राप्त इति स्पर्शनेनास्मभ्यं निवेदितो न तस्य तेन जननी जनको वा कश्चिदाख्यातः तस्मादुत्कृष्ट
॥२०७॥ तमोऽसाविति निश्चीयते, अस्माकं पुनस्रयाणामपि कर्मविलासो जनकः, भगवदादिष्टाभिधाना एव जनन्यः, तस्मादिदमत्रावसीयते |
CARNAGARICALSCRECACARE
Jain Education
For Private & Personel Use Only
M
inelibrary.org