________________
उपमिती तृ. ३-प्र.
॥ २०६ ॥
Jain Educatio
सागरः । अस्माभिरिति मन्यन्ते, विपर्यासवशं गताः ॥ १६० ॥ ततो हार्दं तमस्तेषां प्रविसर्पति सर्वतः । विवेकशोषकाश्चित्ते, वर्धन्ते रागरश्मयः ॥ १६९ ॥ नष्टसत्पथसद्भावा, ध्याध्यन्धीभूतबुद्धयः । कुर्वन्तोऽनार्यकार्याणि, वार्यन्ते केन ते ततः ? ॥ १६२ ॥ धर्मलोकविरुद्धानि, निन्दितानि पृथग्जनैः । कार्याण्याचरतां लोकः, शत्रुमावं प्रपद्यते ॥ १६३ ॥ कुलं चन्द्रांशुविशदं, ते कुर्वन्ति मलीमसम् । आत्मीयचरितैः पापाः, प्रयान्ति जनहास्यताम् ॥ १६४ ॥ अगम्यगमनासक्ता, निर्मर्यादा नराधमाः । अर्कतूलादपि परं, ते जने यान्ति लाघवम् ॥ १६५ ॥ दुर्लभः ख्यादिविषयः, कथश्चिदसदाग्रहः । यदा पुनर्विवर्तेत, हृदयेऽतिमहाग्रहः ॥ १६६ ॥ तदा ते यान्ति दुः+ खानि, याश्च लोके विडम्बना: । प्राप्नुवन्ति न शक्यन्ते, ता व्यावर्णयितुं गिरा ॥ १६७ ॥ युग्मम् ॥ केवलं गदितुं शक्यमियदेव समा| सतः । लभन्ते ते नराः सर्वा लोके दुःखविडम्बनाः ॥ १६८ ॥ प्रकृत्यैव भवन्त्येते, गुरुदेवतपखिनाम् । प्रत्यनीका महापापा, निर्भाग्या गुणदूषणाः ।। १६९ सन्मार्गपतितं वाक्यमुपदिष्टं हितैषिणा । केनचिन्न प्रपद्यन्ते, ते महामोहदूषिताः ॥ १७० ॥ ततश्चेदं मुनेर्वाक्यं, विनिश्चित्य मनीषिणा । विचिन्तितमिदं चित्ते, तथा मध्यमबुद्धिना ॥ १७१ ॥ स्पर्शनेन्द्रियलुब्धानां यदेतदुपवर्णितम् । नृणां वृत्तं ज४ घन्यानां, सूरिभिर्विशदाक्षरैः ।। १७२ ।। तदेतत्सकलं बाले, प्रतीतं स्फुटमावयोः । नाप्रतीतं वदन्त्येते, यदि वा वरसूरयः ॥ १७३ ॥ | युग्मम् । बालेन तु गुरोर्वाक्यं, न मनागपि लक्षितम् । तस्यां मदनकन्दल्यां, क्षिप्तचित्तेन पापिना ॥ १७४ ॥ सूरिरुवाच - तदेवं भो महाराज !, जघन्यनरचेष्टितम् । निवेदितं मया तुभ्यं, तत्रेदमभिधीयते ॥ १७५ ॥ एते जघन्या भूयांसो, भुवने सन्ति मानवाः । इतरे तु यतः स्तोकाः, सकलेऽपि जगत्रये ॥ १७६ ॥ स्पर्शनेन्द्रियजेतारो, विरला भुवने नराः । तेनास्माभिरिदं पूर्वं भवद्भ्यः प्रतिपादितम् १ निःसत्त्वास्तनु० प्र.
tional
For Private & Personal Use Only
जघन्नपुरुपवृत्तं
॥ २०६ ॥
Jainelibrary.org