SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ.३-प्र. ॥२०५॥ ॥१४२ ॥ तस्मात्कालविलम्बोऽत्र, युक्तोऽस्माकं प्रयोजने । नैवैकपक्षनिक्षेपो, विधातुमिह युज्यते ॥ १४३ ॥ एषा च जायते बुद्धिर्या 3 तेषां कर्मपद्धतिः । तत्संकाशा नृणां यस्माद्, बुद्धिः कर्मानुसारिणी ॥ १४४ ॥ ततस्ते स्पर्शनाक्षस्य, मन्यन्ते सुखहेतुताम् । अनुकूले | च वर्तन्ते, किंतु नात्यन्तलोलुपाः ॥ १४५ ॥ ततो लोकविरुद्धानि, नाचरन्ति कदाचन । स्पर्शनेन्द्रियलौल्येन, नापायान् प्राप्नुवन्त्यतः ॥ १४६ ॥ विचक्षणोक्तं बुध्यन्ते, विशेषं वचनस्य ते । अदृष्टदुःखास्तद्वाक्यं, केवलं नाचरन्ति भोः! ॥ १४७ ॥ मैत्री बालिशलोकेन, कुर्वन्ति स्नेहनिर्भराम् । लभन्ते तद्विपाकेन, रौद्रा दुःखपरम्पराम् ॥ १४८ ॥ अवर्णवादं लोके च, प्राप्नुवन्ति न संशयः । संसर्गः पापलोकेन, सर्वानर्थकरो यतः ॥ १४९ ॥ यदा पुनः प्रपद्यन्ते, विदुषां वचनानि ते । आचरन्ति च विज्ञाय, तदीयां हितरूपताम् ॥ १५० ॥ तदा ते विगताबोधा, भवन्ति सुखिनो नराः । महापुरुषसम्पर्काल्लभन्ते मार्गमुत्तमम् ॥ १५२ ॥ युग्मम् । पण्डिता इव ते नित्यं, गुरुदेवतपस्विनाम् । बहुमानपराः सन्तः, कुर्वन्यर्चनवन्दनम् ॥ १५३ ॥ तदिदमाचारूयं वचनमाकर्ण्य मध्यमबुद्धिना चिन्तितम्य एते सूरिणा प्रोक्ता, मध्यमानां गुणागुणाः । स्वसंवेदनसंसिद्धास्ते ममापि स्वगोचरे ॥ १५४ ॥ मनीषिणा चिन्तितम्| यदिदं सूरिणाऽऽदिष्टं, वचनैः सुपरिस्फुटैः । चरितं मध्यमानां तन्मदीये भ्रातरि स्थितम् ।। १५५ ॥ सूरिरुवाच-तदेवं कथितास्तावन्मध्यमानां गुणागुणाः । जघन्यनरसम्बन्धि, स्वरूपमधुनोच्यते ॥ १५६ ॥ जघन्यास्ते नरा ज्ञेया, यैरिदं स्पर्शनेन्द्रियम् । अवाप्य मानुषं जघन्यपुजन्म, बन्धुबुद्ध्याऽवधारितम् ॥ १५७ ॥ परीरिरूपतामस्य, न जानन्त्येव ते स्वयम् । परेषामिति रुष्यन्ति, विदुषां हितभाषिणाम् ॥१५॥ रुषवृत्तं स्पर्शनेन्द्रियसम्पाद्ये, पामाकण्डूयनोपमे । परमार्थेन दुःखेऽपि, सुखलेशेऽपि गृनवः ॥ १५९ ।। स्वर्गोऽयं परमार्थोऽयं, लब्धोऽयं सुख-| ४॥२०५॥ १उत्कृष्टशत्रु उ.भ.१८ Jain Educat i ona For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy