________________
उपमिती तृ.३-प्र.
॥२०५॥
॥१४२ ॥ तस्मात्कालविलम्बोऽत्र, युक्तोऽस्माकं प्रयोजने । नैवैकपक्षनिक्षेपो, विधातुमिह युज्यते ॥ १४३ ॥ एषा च जायते बुद्धिर्या 3 तेषां कर्मपद्धतिः । तत्संकाशा नृणां यस्माद्, बुद्धिः कर्मानुसारिणी ॥ १४४ ॥ ततस्ते स्पर्शनाक्षस्य, मन्यन्ते सुखहेतुताम् । अनुकूले | च वर्तन्ते, किंतु नात्यन्तलोलुपाः ॥ १४५ ॥ ततो लोकविरुद्धानि, नाचरन्ति कदाचन । स्पर्शनेन्द्रियलौल्येन, नापायान् प्राप्नुवन्त्यतः ॥ १४६ ॥ विचक्षणोक्तं बुध्यन्ते, विशेषं वचनस्य ते । अदृष्टदुःखास्तद्वाक्यं, केवलं नाचरन्ति भोः! ॥ १४७ ॥ मैत्री बालिशलोकेन, कुर्वन्ति स्नेहनिर्भराम् । लभन्ते तद्विपाकेन, रौद्रा दुःखपरम्पराम् ॥ १४८ ॥ अवर्णवादं लोके च, प्राप्नुवन्ति न संशयः । संसर्गः पापलोकेन, सर्वानर्थकरो यतः ॥ १४९ ॥ यदा पुनः प्रपद्यन्ते, विदुषां वचनानि ते । आचरन्ति च विज्ञाय, तदीयां हितरूपताम् ॥ १५० ॥ तदा ते विगताबोधा, भवन्ति सुखिनो नराः । महापुरुषसम्पर्काल्लभन्ते मार्गमुत्तमम् ॥ १५२ ॥ युग्मम् । पण्डिता इव ते नित्यं, गुरुदेवतपस्विनाम् । बहुमानपराः सन्तः, कुर्वन्यर्चनवन्दनम् ॥ १५३ ॥ तदिदमाचारूयं वचनमाकर्ण्य मध्यमबुद्धिना चिन्तितम्य एते सूरिणा प्रोक्ता, मध्यमानां गुणागुणाः । स्वसंवेदनसंसिद्धास्ते ममापि स्वगोचरे ॥ १५४ ॥ मनीषिणा चिन्तितम्| यदिदं सूरिणाऽऽदिष्टं, वचनैः सुपरिस्फुटैः । चरितं मध्यमानां तन्मदीये भ्रातरि स्थितम् ।। १५५ ॥ सूरिरुवाच-तदेवं कथितास्तावन्मध्यमानां गुणागुणाः । जघन्यनरसम्बन्धि, स्वरूपमधुनोच्यते ॥ १५६ ॥ जघन्यास्ते नरा ज्ञेया, यैरिदं स्पर्शनेन्द्रियम् । अवाप्य मानुषं जघन्यपुजन्म, बन्धुबुद्ध्याऽवधारितम् ॥ १५७ ॥ परीरिरूपतामस्य, न जानन्त्येव ते स्वयम् । परेषामिति रुष्यन्ति, विदुषां हितभाषिणाम् ॥१५॥ रुषवृत्तं स्पर्शनेन्द्रियसम्पाद्ये, पामाकण्डूयनोपमे । परमार्थेन दुःखेऽपि, सुखलेशेऽपि गृनवः ॥ १५९ ।। स्वर्गोऽयं परमार्थोऽयं, लब्धोऽयं सुख-| ४॥२०५॥
१उत्कृष्टशत्रु
उ.भ.१८
Jain Educat
i ona
For Private & Personel Use Only
jainelibrary.org