SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ उपमितौभद्रतया तेषां, परिस्फुरति मानसे । न चैतत्सुन्दरं हन्त, जीवानां स्पर्शनेन्द्रियम् ॥ १२५ ।। ततो बोधप्रभावेन, लक्षयन्त्यपि ते नराः । तृ. ३-प्र. कुर्वन्तोऽन्वेषणं तस्य, मूलशुद्धिं परिस्फुटाम् ॥ १२६ ॥ ततो विज्ञाय ते तस्य, लोकवञ्चनतां नराः । सर्वत्र चकिता नैव, विश्वसन्ति कदाचन ॥ १२७ ॥ न चानुकूलचारित्वं, भजन्ति विजितस्पृहाः । ततस्तजनितैर्दोषैर्न युज्यन्ते विचक्षणाः ।। १२८ ॥ शरीरस्थितिमात्रार्थ॥२०४॥ |माचरन्तोऽपि तत्प्रियम् । तत्र गृद्धेरभावेन, भवन्ति सुखभाजनम् ॥ १२९ ।। प्राप्नुवन्ति यशः शुभ्रमिह लोकेऽपि ते नराः । स्वर्गापवर्गमार्गस्य, निकटे तादृशाशयाः॥ १३०॥ गुरवः केवलं तेषां, नाममात्रेण कारणम् । मोक्षमार्गे प्रवर्तन्ते, स्वत एव हि ते नराः ॥१३॥ अन्येषामपि कुर्वन्ति, ते सन्मार्गावतारणम् । तद्वाक्यं ये प्रवर्त(पद्य)न्ते, विज्ञाय गुणकारकम् ॥ १३२॥ ये पुनर्न प्रपद्यन्ते, तद्वाक्यं बालिशा जनाः । तेषामनादरं कृत्वा, ते तिष्ठन्ति निराकुलाः ।। १३३ ॥ प्रकृत्यैव भवन्येते, देवाचार्यतपस्विनाम् । पूजासत्कार करणे, रतचित्ता महाधियः ।। १३४ ॥ एवं भाषिणि च भगवति प्रबोधनरतिसूरौ मनीषिणा चिन्तितम्-यथेदमुत्कृष्टानां (उत्कृष्टानां यथैवेद), श्लाधितं काचरितं नृणाम् । तथानुभवसिद्धं मे, किञ्चिदात्मनि भासते ॥ १३५ ।। मध्यमबुद्धिना चिन्तितम्-उत्कृष्टपुंसां यादृक्षा, गुरुणा वर्णिता गुणाः । एते गुणाः परं सर्वे, घटन्तेऽत्र मनीषिणि ॥ १३६ ।। गुरुरुवाच-तदेवं तावदुत्कृष्टा, वर्णिताः पुरुषा मया । अधुना मध्यमानां| मध्यमा यत्स्वरूपं तन्निबोधत ॥ १३७ ॥ मध्यमास्ते नरा ज्ञेया, यैरिदं स्पर्शनेन्द्रियम् । अवाप्य मानुषं जन्म, मध्यबुद्ध्याऽवधारितम् नराः ॥ १३८ ॥ स्पर्शनेन्द्रियसम्पाद्ये, ते सुखे गृद्धमानसाः । पण्डितैरनुशिष्टाश्च, दोलायन्ते स्वचेतसा ॥ १३९ ॥ चिन्तयन्ति निजे चित्ते, ते दोलायितबुद्धयः । विचित्ररूपे संसारे, किमत्र वत कुर्महे ? ॥ १४० ॥ भोगानेके प्रशंसन्ति, रमन्ते सुखनिर्भराः । अन्ये शान्तान्त-I8॥२४॥ रात्मानो, निन्दन्ति विगतस्पृहाः ॥ १४१ ॥ तत्र कतरो मार्गो, मादृशामिह युज्यते ? । न लक्षयामोऽन्तः चित्तं, सन्देहमवगाहते Jain Education For Private 3 Personal Use Only Vodainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy