________________
उपमितौभद्रतया तेषां, परिस्फुरति मानसे । न चैतत्सुन्दरं हन्त, जीवानां स्पर्शनेन्द्रियम् ॥ १२५ ।। ततो बोधप्रभावेन, लक्षयन्त्यपि ते नराः । तृ. ३-प्र. कुर्वन्तोऽन्वेषणं तस्य, मूलशुद्धिं परिस्फुटाम् ॥ १२६ ॥ ततो विज्ञाय ते तस्य, लोकवञ्चनतां नराः । सर्वत्र चकिता नैव, विश्वसन्ति
कदाचन ॥ १२७ ॥ न चानुकूलचारित्वं, भजन्ति विजितस्पृहाः । ततस्तजनितैर्दोषैर्न युज्यन्ते विचक्षणाः ।। १२८ ॥ शरीरस्थितिमात्रार्थ॥२०४॥
|माचरन्तोऽपि तत्प्रियम् । तत्र गृद्धेरभावेन, भवन्ति सुखभाजनम् ॥ १२९ ।। प्राप्नुवन्ति यशः शुभ्रमिह लोकेऽपि ते नराः । स्वर्गापवर्गमार्गस्य, निकटे तादृशाशयाः॥ १३०॥ गुरवः केवलं तेषां, नाममात्रेण कारणम् । मोक्षमार्गे प्रवर्तन्ते, स्वत एव हि ते नराः ॥१३॥ अन्येषामपि कुर्वन्ति, ते सन्मार्गावतारणम् । तद्वाक्यं ये प्रवर्त(पद्य)न्ते, विज्ञाय गुणकारकम् ॥ १३२॥ ये पुनर्न प्रपद्यन्ते, तद्वाक्यं बालिशा जनाः । तेषामनादरं कृत्वा, ते तिष्ठन्ति निराकुलाः ।। १३३ ॥ प्रकृत्यैव भवन्येते, देवाचार्यतपस्विनाम् । पूजासत्कार करणे, रतचित्ता
महाधियः ।। १३४ ॥ एवं भाषिणि च भगवति प्रबोधनरतिसूरौ मनीषिणा चिन्तितम्-यथेदमुत्कृष्टानां (उत्कृष्टानां यथैवेद), श्लाधितं काचरितं नृणाम् । तथानुभवसिद्धं मे, किञ्चिदात्मनि भासते ॥ १३५ ।। मध्यमबुद्धिना चिन्तितम्-उत्कृष्टपुंसां यादृक्षा, गुरुणा वर्णिता
गुणाः । एते गुणाः परं सर्वे, घटन्तेऽत्र मनीषिणि ॥ १३६ ।। गुरुरुवाच-तदेवं तावदुत्कृष्टा, वर्णिताः पुरुषा मया । अधुना मध्यमानां| मध्यमा यत्स्वरूपं तन्निबोधत ॥ १३७ ॥ मध्यमास्ते नरा ज्ञेया, यैरिदं स्पर्शनेन्द्रियम् । अवाप्य मानुषं जन्म, मध्यबुद्ध्याऽवधारितम् नराः ॥ १३८ ॥ स्पर्शनेन्द्रियसम्पाद्ये, ते सुखे गृद्धमानसाः । पण्डितैरनुशिष्टाश्च, दोलायन्ते स्वचेतसा ॥ १३९ ॥ चिन्तयन्ति निजे चित्ते, ते दोलायितबुद्धयः । विचित्ररूपे संसारे, किमत्र वत कुर्महे ? ॥ १४० ॥ भोगानेके प्रशंसन्ति, रमन्ते सुखनिर्भराः । अन्ये शान्तान्त-I8॥२४॥ रात्मानो, निन्दन्ति विगतस्पृहाः ॥ १४१ ॥ तत्र कतरो मार्गो, मादृशामिह युज्यते ? । न लक्षयामोऽन्तः चित्तं, सन्देहमवगाहते
Jain Education
For Private 3 Personal Use Only
Vodainelibrary.org