________________
उपमितौ तु. ३-प्र.
॥२०२॥
यतो बोधप्रभावेन, मम पूर्व निवेदितः । यथाऽन्तरङ्गनगरे, वास्तव्योऽयं महाबलः ॥ ८७ ॥ तन्नूनं पुरुषव्याजसंस्थितं स्पर्शनेन्द्रियम् । अस्मान् प्रतारयत्येतदन्यथा कथमीदृशम् ? ॥ ८८ ॥ तथा भगवताऽदिष्टा, ये चोत्कृष्टतमा नराः । कथितः स्पर्शनेनापि, भवजन्तुस्तथाविधः ॥ ८९ ॥ तथाहि मां निराकृत्य, सदागमबलेन सः । सन्तोषानिवृति प्राप्त, इति तेन निवेदितम् ॥ ९० ॥ तस्मानास्त्यत्र सन्देहः, साम्प्रतं पुरुषत्रयम् । श्रुत्वाऽशेषं विजानामि, यदत्र परमाक्षरम् ॥ ९१ ॥ अयं हि भगवान् सूरिर्भुवनं सचराचरम् । ज्ञानालोकेन जा| नीते, सन्देहदलनः परम् ।। ९२ ॥ यावत्स चिन्तयत्येवं, साकूतो विस्मितेक्षणः । तावल्लक्षितचित्तेन, पृष्ठो मध्यमबुद्धिना ॥ ९३ ॥ कथम्?-मनीषिनितरां चित्ते, भावितस्त्वं विलोक्यसे । किमत्र भवता किञ्चित्सतत्त्वमवधारितम् ॥ ९४ ॥ मनीषिणोक्तं किं भ्रातर्भवता किं न लक्षितम् । किमेवं स्फुटवाक्येन, कथयत्यपि सन्मुनौ ॥ ९५ ॥ अनेन हि समादिष्टं, यादृशं स्पर्शनेन्द्रियम् । वयस्यस्तावक-| |स्तादृक् , स्पर्शनो नात्र संशयः ॥ ९६ ।। कथमेतत्ततः पृष्टे, पुनर्मध्यमबुद्धिना । आख्यातं कारणं तेन, निःशेष तु मनीषिणा ॥ ९ ॥ बालस्तु पापकर्मत्वात्केवलं वीक्षते दिशः । अनादरपरस्तत्र, हितेऽपि वचने गुरोः ॥ ९८ ॥ अथ राज्ञः समीपस्था, पिबन्ती वचनामृतम् । आचार्यायं विशालाक्षी, राज्ञी मदनकन्दली ॥ ९९ ॥ सा दृष्टा तेन बालेन, ततोऽस्य हृदि संस्थितम् । नूनं मे हृदयस्येष्टा, सेयं मदनकन्दली ।। १०० ॥ यतोऽवदातमेतस्यास्तापनीयसमप्रभम् । शरीरं दर्शनादेव, मृदुता सूचयत्यलम् ॥ १०१॥ रक्तराजीवसच्छायं, विभाति चरणद्वयम् । अलक्षितसिराजालं, कूर्मोन्नतमनुत्तमम् ॥ १०२ ॥ बिभर्ति तोरणाकार, भवने माकरध्वजे । जङ्घायुग्मं खसौन्दर्यादेतस्यास्तेन राजते ॥ १०३ ।। मेखलायाः कलापेन, बद्धमन्मथवारणम् । नितम्बबिम्बमेतस्या, विशालममृतायते ॥ १०४ ॥ भारेणैव वशीभूतो, विराजितवलित्रयः । एतस्या राजते मध्यो, रोमराजिविभूषणः ॥ १०५ ॥ गम्भीरा सजनस्येव, हृदयं सुमनोहरा । राजते
बालस्य बालता
२०२॥
JainEducation
For Private
Personel Use Only
Jw.jainelibrary.org