SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ उपमिती |"वीर्येण, ससुरासुरमानुषम् । वराकमिव मन्यन्ते, सकलं भुवनत्रयम् ॥ ६८ ॥ दुर्जयानि ततोऽमूनि, हृषीकाणि नराधिप!" एवं सामातृ. ३-प्र. न्यतः कृत्वा, हृषीकगुणवर्णनम् ॥ ६९ ॥ ततश्च–ज्ञानालोकेन वृत्तान्तं, बोधनार्थ मनीषिणः । सूरिर्वभाषे सद्दन्तदीधितिच्छुरिताधरः ॥२०१॥ ॥ ७० ॥ अथवा महाराज!-तिष्ठन्तु तावच्छेषाणि, हृषीकाणि जगजये । स्पर्शनेन्द्रियमेवैकं, समर्थ बत वर्त्तते ।। ७१ ॥ यतो न शलक्यते लोकैर्जेतुमेकैकमप्यदः । लीलया जयतीदं तु, भुवनं सचराचरम् ॥७२॥ नरपतिरुवाच-भगवंस्तस्य जेतारो, नराः किं सन्ति कुत्र|चित् ? । आहोखिन्नैव विद्यन्ते, भुवनेऽपि तथाविधाः॥७३॥ मुनिरुवाच-राजन्न हि न विद्यन्ते, केवलं विरला जनाः । ये चास्य विनिहन्तारस्तत्राकर्णय कारणम् ।।७४॥ जधन्यमध्यमोत्कृष्टास्तथोत्कृष्टतमा गुणैः । चतुर्विधा भवन्तीह, पुरुषा भवनोदरे ॥७५॥ त(तेऽ)थोत्कृष्टतमास्तावद्यैरिदं स्पर्शनेन्द्रियम्। अनादिभवसम्बन्धलालितं पालितं प्रियम् ।।७६॥ जैनेन्द्रागममम्पर्काद्विज्ञाय बहुदोषकम् । | ततः सन्तोषमादाय, महासत्त्वैर्निराकृतम् ॥ ७७ ॥ युग्मम् । गृहस्था अपि ते सन्तो, ज्ञाततत्त्वा जिनागमे । स्पर्शनेन्द्रियलौल्येन, नाचरन्ति कुचेष्टितम् ।। ७८ ॥ यदा पुनर्विशेषेण, तिष्ठेत्तेषां जिनागमः । स्पर्शनेन्द्रियसम्बन्धं, त्रोटयन्ति तदाऽखिलम् ॥ ७९ ॥ यतो दीक्षां समादाय, निर्मलीमसमानसाः। सन्तोषभावतो धन्या, जायन्तेऽत्यन्तनिःस्पृहाः ।। ८० ॥ ततस्ते भवकान्तारनिर्विण्णा वीतकल्मषाः । स्पर्शनप्रतिकूलानि, सेवन्ते धीरमानसाः ॥ ८१ ॥ भूमीशयनलोचादिकायक्लेशविधानतः । ततः सुखस्पृहां हित्वा, जायन्ते ते निराकुलाः ॥ ८२ ॥ ततः सकलकर्माशक्लेशविच्छेदभाजनम् । भूत्वा ते निवृति यान्ति, निर्जित्य स्पर्शनेन्द्रियम् ।। ८३ ॥ तेनोत्कृष्टतमा राजनिर्दिष्टास्ते विचक्षणैः । ये चैवमनुतिष्ठन्ति, विरलास्ते जगत्रये ॥ ८४ ॥ ततो भागवतं वाक्यमाकर्येदं मनीषिणः । अभूञ्चेतसि | सङ्कल्पस्तदानी चारुचेतसः ॥ ८५ ।।-अये भगवता यादग् , वर्णितं स्पर्शनेन्द्रियम् । अत्यन्तविषमं लोके, स्पर्शनस्तादृशः परम् ॥८६॥ ACANCARRORAL उत्कृष्टतमाद्याश्चतुर्धा नराः २०१॥ Jain Education Hermalin ForPrivate sPersonal use Only . ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy