SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥१९८॥ नाम् । साधूनां येऽत्र कुर्वन्ति, ते धल्यास्ते मनीषिणः॥१६॥ ततो मदनकन्दल्या, सार्द्धमन्तःपुरैस्तथा । सुबुद्धिवचनाद्राजा, निर्गतो मुनिवन्दकः ॥ १७ ॥ ततः सर्व पुरं तत्र, नृपे चलति विस्मितम् । सैन्यं च गतमुद्याने, कौतुकाकृष्टमानसम् ॥ १८ ॥ निपत्य पादयोस्तत्र, जिनस्य सबलो नृपः । प्रबोधनरतिं भक्त्या, ववन्दे हृष्टमानसः ॥ १९ ॥ प्रणम्याशेषसाधूंश्च, दत्ताशीर्गुरुसाधुभिः । निषण्णो भूतले राजा, विनयानम्रमस्तकः ॥ २० ॥ सुबुद्धिरपि जैनेन्द्रपादपद्मकृतानतिः । निरूपयति सर्वाणि, देवकर्माणि यत्नतः ॥ २१ ॥ देवपूजनसबूपदीपदानादिपूर्वकम् । भक्त्योत्कण्ठितसर्वाङ्गो, भून्यस्तकरजानुकः ॥ २२॥ दुर्लभं भवकान्तारे, जन्तुभिर्जिनवन्दनम् । इति|भावनया धन्यो, निर्मलीभूतमानसः ॥ २३ ॥ आनन्दजलपूर्णाक्षः, क्षालयन्नात्मकिल्बिषम् । नत्वां भगवतो बिम्बे, न्यस्तदृष्टिर्विचक्षणः । ६॥२४॥ शक्रस्तवं शनैर्धारः, पठित्वा भक्तिनिर्भरः । पञ्चाङ्गप्रणिपातान्ते, निषण्णः शुद्धभूतले ॥२५॥ युग्मम् । परस्परतिरोभूतकरशाखाविनि-8 मिताम् । कोशाकारकरः कृत्वा, योगमुद्रां समाहितः ॥ २६ ॥ ततो भुवननाथस्य, स्तोत्राणि कलया गिरा । स तदानीं पठत्येवं, तदर्था|र्पितमानसः ॥ २७ ॥ "नमस्ते जगदानन्द !, मोक्षमार्गविधायक!। जिनेन्द्र! विदिताशेषभावसद्भावनायक! ॥ २८ ॥ प्रलीनाशेषसं| "सारविस्तार! परमेश्वर! । नमस्ते वाक्पथातीत, त्रिलोकनरशेखर! ॥ २९ ॥ भवाब्धिपतितानन्तसत्त्वसंघाततारक! । घोरसंसारका "न्तारसार्थवाह ! नमोऽस्तु ते ॥ ३० ॥ अनन्तपरमानन्दपूर्णधामव्यवस्थितम् । भवन्तं भक्तितः साक्षात्पश्यतीह जनो जिन! ॥३१॥ | "स्तुवतस्तावकं बिम्बमन्यथा कथमीदृशः । प्रमोदातिशयश्चित्ते, जायते भुवनातिग! ॥ ३२ ॥ पापाणुजनितस्तावत्तापः संसारिचेतसाम् ।। | "यावत्तेषां सदानन्द!, मध्ये नाथ! न वर्त्तसे ॥ ३३ ॥ येषां पुनर्विधत्ते सा, नाथ ! चित्तेषु देहिनाम् । पापाणवः क्षणात्तेषां ध्वंसमायान्ति १ वत्तिः स्थानं. सुबुद्धिता जिनस्तुतिः ॥१९८॥ Jain Educati o nal For Private & Personel Use Only X wjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy