SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. ॥१९६॥ कर्मविलासस्य मनीविपक्षपातः "सन्तोषामृतस्य तीर्थ सर्वविद्यावताराणां कुलभवनमाचाराणां नाभिः प्रज्ञा(प्राज्ञ)चक्रस्य वडवानलो लोभार्णवस्य महामत्रः क्रोधभुजङ्गस्य “दिवसकरो महामोहान्धकारस्य निकषोपलः शास्त्ररत्ना(सुवर्णा)नां दावानलो रागपल्लवदहने अर्गलाबन्धो नरकद्वाराणां देशकः सत्पथानां निधिः | "सातिशयज्ञानमणीनामायतनं समस्तगुणानां समवमृतस्तत्र पुरे प्रबोधनरतिर्नामाचार्यः," इतश्च स्पर्शनप्रतिकूलचारिणमुपलभ्य मनीषिणं प्रादुरभूत्कर्मविलासस्य तस्योपरि खरतरः पक्षपातः, ततोऽसौ शुभसुन्दरी प्रत्याह-प्रिये! लक्षयत्येव तावदिदं भवती, यथाऽनादिरूढा प्रकृतिरियं मम वर्त्तते, यदुत-योऽस्य स्पर्शनस्यानुकूलस्तस्य मया प्रतिकूलेन भाव्यं प्रतिकूलस्य पुनरनुकूलतया वर्तितव्यं, मम च प्रति|कूलमाचरतः सर्वत्राकुशलमालोपकरणं अनुकूलं विदधतः पुनर्भवती ममोपकरणं वर्त्तते, तदेवं स्थिते स्पर्शनानुकूलचारिणो बालस्य दशितो मयाऽकुशलमालाव्यापारणद्वारेण कश्चिदात्मनः प्रतिकूलताफलविशेषः, अस्य तु मनीषिणः स्पर्शनप्रतिकूलवर्त्तिनो न मयाऽद्यापि निजानुकूलताफलविशेषो दर्शितो, यद्यपि यदिदमस्य स्पर्शने निरभिष्वङ्गतया मृदुशयनसुरतादीन्यनुभवतः संपद्यते सुखं यश्चायं समुल्लसितो लोकमध्ये यशःपटहो न च संपन्नः क्वचिदपायगन्धोऽपि विचरतस्तस्य अस्य समस्तस्य व्यतिकरस्याहमेव भवत्यैवोपकरणभूतया कारणं, तथापि मयि सप्रसादे नैतावन्मात्रमेवास्य फलमुचितम् , इति प्रिये! विशिष्टतरफलसंपादनार्थमस्य मनीषिणो यत्नं कुरुष्वेति, शुभसुन्दर्युवाच -साध्वार्यपुत्र! साधु सुन्दरमभिहितं देवेन, स्थितं ममापीदं हृदये, योग्य एव मनीषी देवप्रसादानां, तदेषाऽनुतिष्ठामि यदाज्ञापितं देवेनेत्यभिधाय व्यापारिता शुभसुन्दर्या योगशक्तिः, विहितमन्तर्धानं, प्रविष्टा [गता] मनीषिशरीरे, प्रादुर्भूतोऽस्य प्रमोदः, सिक्तममृतसेकेDiनाम्बा(त्म)शरीरं, प्रवृत्ता निजविलसितोद्यानगमनेच्छा, प्रस्थितस्तदभिमुखं, चिन्तितमनेन कथमेकाकी गच्छामि, बहुश्च कालो गृहप्रविष्टस्य | तिष्ठतो मध्यमबुद्धेरतीतो, विस्मृतोऽधुना लोकस्य बालवृत्तान्तो, व्यपगतं तस्य लज्जाकारणम् , अतस्तमपि निजविलसितोद्याने नयामीति P॥१९६॥ For Private Jan Education ainelibrary.org Personal Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy