________________
उपमितौ तृ. ३-अ.
C
दशापराधप्रभविष्णुता भवति बहिरङ्गनगरेषु नेतरेषां, ते हि केवलं सुन्दरासुन्दरप्रयोजनानि जनानां प्रच्छन्नरूपा एव सन्तः स्ववीर्येण | निर्वर्त्तयन्ति, तथाहि-कर्मविलासप्रतिकूलताजनितोऽयं बालस्य परमार्थतः सर्वोऽप्यनर्थः संपन्न इति, ततो मयाऽभिहितं-अपगतोऽधुना मे सन्देहः, अग्रतः कथय, विदुरेणाभिहितम्-ततः कृच्छ्रेणातिकान्ते याममात्रे रजन्याः प्राप्तः स्वसदनं बालः, इतश्चाकर्णितः प्र
मध्यबुद्धेभात एव तदीयवृत्तान्तो मध्यमबुद्धिना, ततो बालस्नेहलेशस्यानुवर्त्तमानतया संजातो मनाग विषादः, चिन्तितमनेन-हा किमीदृशं संपन्नं
विचारः बालस्येति ?, पुनःपर्यालोचयतः प्रादुर्भूतोऽस्य मनसि प्रमोदः, चिन्तितमनेन–पश्यताहो मनीषिवचनकरणाकरणयोरिह लोक एवान्तरम् , | तथाहि-तदुपदेशवर्तिनो मेऽधुना न संपन्नः क्लेशः नोदीर्णमयशः, पूर्व पुनर्विपरीतचारिणो द्वयमप्यासीत् , बालस्य पुनरेकान्ततो मनी-|| | षिवचनविपरीताचरणनिरतस्य यत्संपद्यते दुःखसंघातो विजृम्भते जगत्ययशःपटहः संजायते मरणं तत्र किमाश्चर्य ?, तदस्ति ममापि काद चिद्धन्यता यया मनीषिवचने बहुमानः संपन्न इति । तथाहि । नैवाभव्यो भवत्यत्र, सतां वचनकारकः । पक्तिः काङ्कटुके नैव, जाता
यत्नशतैरपि ॥ १॥ एवं भावयतश्चित्ते, बालस्नेहं विमुञ्चतः। प्रमोदपूर्णचित्तस्य, लवितं तस्य तद्दिनम् ॥ २॥ ततः समागते बाले, लोकाचारानुवर्त्तनम् । कुर्वता विहितं तेन, तस्य संभाषणं किल ।। ३ ॥ पृष्टश्चाशेषवृत्तान्तं, विषादगतबुद्धिना । तेनापि कथिता तस्मै, प्रबोधनसबालेनात्मविडम्बना ॥४॥न शिक्षणस्य योग्योऽयं, मत्वा मध्यमबुद्धिना । ततस्तदनुरोधेन, कृतेषत्परिदेवना ॥ ५ ॥ ततश्चूर्णितसर्वाङ्गो, रिसमादुःखविह्वलमानसः । तथा राजभयादुप्राद्, बालस्तत्रैव संश्रितः ॥ ६॥ प्रच्छन्नरूपः सततं, न निर्गच्छति कुत्रचित् । एवं च तिष्ठतोः गमः कालस्तयोर्भूयान् विलक्तिः ॥७॥अथान्यदा निजविलसिताभिधाने जीर्णोद्याने गन्धहस्तीव वरकलभवृन्देन “परिकरितः सातिशयगुणवता Sneen "निजशिष्यवर्गेण प्रवाहः करुणारसस्य संतरणसेतुः संसारसिन्धोः परशुस्तृष्णालतागहनस्य अशनिर्मानपर्वतोहलने मूलमुपशमतरोः सागरः
Jan Education
For Private Personal use only
w.jainelibrary.org