________________
उपमितौ
तृ. ३- प्र. ॥ १९४ ॥
Jain Education
षणेनोदीर्यमाणेषु क्रन्दतो बालस्य लङ्घिता रजनी, तदाक्रन्दरवेण श्रवणपरम्परया च किमेतदिति कुतूहलेन प्रभाते समागतं राजकुले नगरं दृष्टो बालः स एवायं पापिष्ठोऽद्यापि जीवतीत्यादिः प्रवृत्तः परस्परं नागरकाणां बहुविधस्तदाक्रोशजल्पः, तमाकर्णयतः शतगुणीभूतं तत्तस्य दुःखं कथितो नागरिकेभ्यो विभीषणेन रात्रिव्यतिकरः, ततोऽहो धृष्टताऽस्येति गाढतरं प्रद्विष्टाः सर्वे विज्ञापितो महत्तमै राजा, यदुत —–यो देवपादानामेवमयमपथ्यकारी स तथा क्रियतां यथाऽन्योऽप्येवं न करोतीति, अस्ति च तस्य राज्ञो भगवदर्हदागमावदातबुद्धिः सुबुद्धिर्नामामात्यः, केवलं तेन क्वचिदद्वसरे वरं प्रार्थितो राजा यदुत - हिंस्रकर्मणि नाहं पर्यालोचनीयो भवता प्रतिपन्नश्च स वरो नरपतिना, ततः सुबुद्धिं (अ) पर्यालोच्यैव दत्तः शत्रुमर्दनेन राजपुरुषाणां नियमो यदुत — कदर्थयित्वा बहुप्रकारमेनं नरापसदं व्यापादयतेति, तदाकर्ण्य महाराज्यलाभ इव जातो जनानां प्रमोदातिशयः, ततः समारोपितो रासभे विडम्ब्यमानः शरावमालया सम न्ताचूर्ण्यमानो यष्टिमुष्टिमहालोष्टप्रहारै रोरूयमाणो विरसध्वनिना तुद्यमानो मनसि कर्णकटुकैराक्रोशवचनैर्महता कलकलेन समस्तेषु त्रिकचतुष्कचत्वरहट्टमार्गादिषु बंभ्रम्यमाणो विगोपितो बालः, ततो विशालतया नगरस्य प्रेक्षणकप्रायत्वात्तस्य भ्रमणेनैवातिक्रान्तं दिनं, सन्ध्यायां नीतो वध्यस्थानं उल्लम्बितस्तरुशाखायां प्रविष्टो नगरं लोको, भवितव्यताविशेषेण तस्य त्रुटितः पाशकः पतितो भूतले गतो मूर्च्छा स्थितो मृतरूपतया लु (छु)तो वायुना लब्धा चेतना प्रवृत्तो गृहाभिमुखं गन्तुं भूमिकष (घर्ष ) णेन कूजमानः । अत्रान्तरे अगृहीतसङ्केतयोक्तं - हे संसारिजीव ! तत्र क्षितिप्रतिष्ठितपुरे प्रथमं भवता वीर्यनिधानभूतः कर्मविलासो नाम राजा निवेदितः, अधुना दशापराधप्रभविष्णुरेष शत्रुमर्दनो निवेद्यते, तत्कथमेतदिति ?, संसारिजीवेनाभिहितं — मुग्धे ! मयापि नन्दिवर्द्धनेन सता पृष्ठ एवेदं विदुरः, ततो विदुरेणाभिहितं कुमार ! कर्मविलासस्तत्रान्तरङ्गो राजा शत्रुमर्दनस्तु बहिरङ्गः, तेन नास्ति विरोधः, यतो बहिरङ्गाणामेव राज्ञां
For Private & Personal Use Only
बालस्य विडम्बना
॥ १९४ ॥
www.jainelibrary.org