________________
उपमिती तृ. ३-.
शत्रुमर्दन
भवने बालगमनं
॥१९३॥
अवधीरितो मध्यमबुद्धिना, प्राप्तः शत्रुमर्दनराजकुलं प्रविष्टोऽभ्यन्तरे दृष्टं वासभवनं चलितस्तदभिमुखं, ततः प्रचुरतया लोकस्य सान्धकारतया प्रदोषस्य व्यग्रतया प्राहरिकाणां कथञ्चिदलक्षित एवासौ प्रविष्टो वासभवनं, विलोकितस्तन्मध्यभागः प्रकाशितो मणिप्रदीपैः सनाथो महार्हशयनेन, इतश्च तस्मिन्नवसरे सा मदनकन्दली तस्यैव वासभवनस्यादूरवर्त्तिन्यां प्रसाधनशालिकायामात्मानं चर्चयन्ती तिष्ठति, ततस्तच्छून्यमवलोक्य स बालः बालतयैवारूढः शय्यायाम् आः कोमलेतिभावनया समुद्भूतो हर्षः क्षिप्तमुच्छीर्षके प्रावरणं, किल तिरथीनो भविष्यति याव(त्ताव)द्विहिताशेषप्रदोषकर्त्तव्यो विसर्जिताऽऽस्थानिकलोकः कतिचिदाप्तपुरुषपरिकरो ज्वलत्प्रदीपदर्शितमार्गः समागतः शत्रुमर्दनस्तहारदेशे, दृष्टः प्रविशन बालेन, ततोऽतितेजस्वितया शत्रुमर्दनस्य सत्त्वविकलतया हृदयस्य साध्वसहेतुत्वादकार्याचरणस्य प्रतिकूलतया कर्मविलासस्य स्वफलदानोन्मुखतयाऽकुशलमालायाः स्खविपाकदशन(पटु)तया स्पर्शनस्य भयोत्कर्षेण वेपमानगात्रयष्टिर्निपतितो बालो भूतले, ततोऽत्युचतया पर्यङ्कस्य कणकणतया मणिकुट्टिमस्य शिथिलनिःसृष्टतया शरीरस्य समुत्थितो महानास्फोटरवः, किमेतदिति तूर्णतरं प्रविष्टो राजा, दृष्टस्तेन, कथमयमिह प्रविष्ट इति समुत्पन्नो मनसि वितर्कः, दृष्टमुच्छीर्षके प्रावरणं, लक्षितं शय्यारोहणं, दुष्टोऽयमिति संजातो निश्चयो, मत्कलत्राभिलाषुकोऽयमिति च समुत्पन्नः क्रोधो, विज्ञातं तस्य दैन्यं, तथाप्यतिदुरात्मा खल्वयमपनयाम्यस्य दुर्विनयमितिबुद्ध्या दत्तो बालपृष्ठे निजचरणो राज्ञा आमोटितं पश्चान्मुखं भुजयुगलं बद्धो रारट्यमानस्तत्प्रावरणेनैव, आहूतो विभीषणः, अ| भिहितश्चासौ-अरे! एष पुरुषाधमो भवताऽत्रैव राजाजिरे यथाऽहमाकर्णयाम्यस्य करुणध्वनितं तथा समस्तरजनी कदर्थनीयो, बिभी|पणेनाभिहितं यदाज्ञापयति देवः, ततः समाकृष्टस्तेन, गृहीत्वाऽऽरट्यमानो बालो नीतोऽभ्यर्णराजप्राङ्गणे, बद्धो वज्रकण्टकाकुले लोहस्तम्भे, त्रोटितः कशाघातैः, सिक्तोऽग्निवर्णतैलबिन्दुभिः, प्रवेशिता अङ्गुल्यादिष्वयःशलाकाः, ततश्चैवंविधेषु नरकाकारेषु दुःखेषु बिभी
बालस्य विडम्बना
॥१९३॥
उ. भ. १७
Jain Education international
For Private & Personel Use Only
R
ww.jainelibrary.org