SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥१९२॥ भीरुत्वादेष वर्त्तते ॥ ७ ॥ तथापि लोका दोषेषु, सततं विहितादराः । गुणेषु शिथिलोत्साहा, वर्त्तन्ते पापकर्मणा ॥ ८ ॥ तदेवं गुणदोषाणां, विशेषं पश्यता मया । गुणेषु यत्नः कर्त्तव्यो, य आदिष्टो मनीषिणा ॥ ९॥ ततश्चैवं विचिन्त्यासौ, बभाषे तं मनीषिणम् । न शक्यमधुना लोके, प्रकाशमटितुं मया ॥ १० ॥ लोका मां प्रश्नयिष्यन्ति, बालवृत्तान्तमजसा । अतिलजाकरं तं च, नाहमाख्यातुमुत्सहे ॥ ११ ॥ अन्यच्च दुर्जना लोकाः, श्रुत्वा मेऽन्तःकदर्थनाम् । तदीयां नितरां तुष्टा, हसिष्यन्ति विशेषतः ॥ १२ ॥ तस्माद्भातर्ममात्रैव, स्थातुं सद्मनि युज्यते । जनस्य विस्मरत्येतद्यावद्वालविचेष्टितम् ॥ १३ ॥ मनीषिणोक्तं यत्तुभ्यं, रोचते तद्विधीयताम् । केवलं पापमित्रीयः, संपकों वार्यते मया ॥ १४ ॥ ततः क्वचिदपि बहिरनिर्गच्छंस्तत्रैव सदने स्थितो मध्यमबुद्धिः, गतो मनीषी स्वस्थानम् । इतश्च बालशरीरादाविर्भूतः स्पर्शनोऽकुशलमाला च, अकुशलमालयाऽभिहितं-साधु पुत्रक! साधु, यन्मत्तो जातोऽनुतिष्ठति तदनुष्ठितं भवता, यतो स्पर्शनाकुनिराकृतस्त्वयाऽयमलीकवाचालो मनीषी, स्पर्शनेनाभिहितम्-अम्ब! युक्तमेवेदृशपुरुषाणामनुष्ठानं, दर्शितः खल्वेवमाचरता प्रिय- शलमाला| मित्रेण मयि निर्भरोऽनुरागः, अथवा किमनेन निर्घटितेनेदानीं त्रयाणामप्यस्माकं भावसारं समसमस्तदुःखसुखता, ये तु बृहदर्थसाधनप्र- ४ बालानां वृत्तानामप्यन्तराले विघ्ना भवन्ति तान् के गणयन्ति ?, बालः प्राह-वयमप्येतदेव ब्रूमः, केवलमेतत्स मनीषी न जानाति, स्पर्शने- & गोष्ठी नाभिहितम्-किं तव तेन ?, सुखविघ्नहेतुरसौ पापकर्मा भवतः, अयं जनोऽम्बा च केवलं ते सुखकारणम् , बालः प्राह-कोऽत्र विकल्पो?, ॐा निःसन्दिग्धमिदं, ततः कृतस्ताभ्यां योगशक्तिव्यापारपूर्वको भूयस्तदीयशरीरे प्रवेशः, प्रादुर्भूतं मदनकन्दलीगोचरं भृशतरमौत्सुक्यं प्रवृ-18 तोऽन्तस्तापः प्रवृत्ता जम्भिका पतितः शयनीये, तत्र चानवरतमुद्वर्त्तमानेनाङ्गेन तथा विचेष्टमानो दृष्टोऽसौ मध्यमबुद्धिना, समुत्पन्ना करुणा तथापि मनीषिवचनमनुस्मरता न पृष्टो वार्तामपि बालस्तेन, अत्रान्तरेऽस्तं गतो दिनकरः, ततः प्रथमप्रदोष एव निर्गतो बालः, थवा किमनेन गणयन्ति १, बालअयं जनोऽम्वा, प्रादुर्भूतं मोऽसौ मध्यम एव नि ॥ १९२॥ Jain Education For Private & Personel Use Only M ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy