________________
लोकाना| मवस्था
उपमिती सखाता त्वदीयगमनेन करुणा, प्रादुर्भूतः स्वस्थावस्थानदर्शनेन ममोपरि पक्षपातः, मध्यमबुद्धिराह-कथमेतल्लक्षितं भवता, मनीषिणातृ. ३-प्र. भिहितं-निर्गतोऽहमासीत्तदा नगरे कुतूहलेन भ्रमणिकया, ततः श्रुता मया परस्परं जल्पन्तो लोकाः यदुत-अहो सुन्दरं संपन्नं यदसौ ॥१९१॥
कलङ्कहेतुर्निजकुलस्य दुष्टोऽन्तःकरणेन वर्जितो मर्यादया बहिर्भूतः सदाचारात् निरतः सततमगम्यगमने अत एवोपतापकरो नगरस्य
वालः केनापि महात्मनाऽपहृत इति, अन्येनाभिहितं-सुष्टु सुन्दरमेवं तु सुन्दरतरं भवति यद्यसौ छिन्नो भिन्नो व्यापादितश्च श्रूयते, 15 यतस्तस्मिन्नेकान्ततः प्रलीने एव पापे नागरिकाणां शीलसंरक्षणं संपत्स्यते नान्यथा, अन्येनाभिहितं सुन्दरमिदं, केवलं यदसौ मध्यमबु
द्धिस्तपस्वी तस्य पृष्ठतो लग्नः क्लिश्यते तन्न चारु, स हि विशिष्टप्रायः प्रतिभासतेऽस्माकं, ततोऽपरः प्राह-भद्र ! ये पापवृत्तीनां वत्सला भवन्ति तेषां कीदृशी विशिष्टता ?, न खलु जात्यकनकं श्यामिकया सह संसर्गमर्हति, अत एव लभन्ते तद्वारेणैव दुःखपरम्पराम् अयशश्च लोके किमत्राश्चर्यं ?, ये पुनरादित एव पापानुष्ठानाशुभजनसंपर्क रयन्ति तेषां नैष दोषोऽनुयुज्यते, अत्रार्थे अयमेव मनीषी दृष्टान्तः, योऽयं महात्मा परिहृतपापप्रवणबालवात्सल्यो निष्कलकं सुखेन जीवतीति, ततस्तं लोकवादमाकर्णयता मयेदं लक्षितमिति । मध्यमबुद्धिना चिन्तितम्-अये ! दोषेषु वर्तमानस्य, नरस्यात्रैव जन्मनि। नास्त्येव सुखगन्धोऽपि, केवलं दुःखपद्धतिः ॥१॥ स हि दुःखभराक्रान्तस्तावता नैव मुच्यते। आक्रोशदानतस्तस्य, लोकोऽन्यद्वैरिकायते॥२॥एकं स दुःखैर्निर्दग्धो, द्वितीयं निन्दितो जनैः। गण्डस्योपरि संजातः, स्फोटो बालस्य दुतेः ॥ ३ ॥ जनानां करुणास्थानं, जातोऽहं बालमीलनात् । कलितस्तादृशः प्रायः, कैश्चित्तत्त्वविचारकैः
॥ ४ ॥ दुःखाकरः सतां निन्द्यो, ममेदानी विजानतः । तस्मान्न युक्तः संसर्गो, बालेन सह पापिना ॥ ५॥ गुणेषु वर्तमानस्य, नरस्या18| त्रैव जन्मनि । जायन्ते संपदः सर्वा, यथाऽस्यैव मनीषिणः ॥ ६॥ यथा ह्यकलङ्कः सुखी, श्लाघनीयो विपश्चिताम् । बालस्पर्शनसंसर्ग
मध्यमबुद्धेर्बोध:
॥१९१॥
Jain Education in an
For Private & Personel Use Only
R
ainelibrary.org