SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥१९ ॥ ततः स्थानात् प्रवेशितः कक्षान्तरे, अभिहितश्चासौ भ्रातः! यद्येष बालः सत्यं बाल इव नात्महितं जानीते तत्किं भवताऽस्य पृष्ठतो विलग्नेन मनीषिमविनष्टव्यम् ?, मध्यमबुद्धिराह-बोधितोऽहमिदानीं भवता, योऽयं भवदुपदेशमपि लङ्घयति तेनालं मम बालेनेति, अन्यच्चातिलज्जनीयो- ध्यमबु|ऽयं व्यतिकरः, तत्किमेष न ज्ञातस्तातेन, मनीषिणाऽभिहितं न केवलेन, तर्हि समस्तनगरोपेतेन, भद्र! केन हि प्रभातं पटकेनाच्छा- द्ध्योः संद्यते, मध्यमबुद्धिराह-कथं ज्ञातो?, मनीषिणाऽभिहितं कामदेवभवनवृत्तान्तस्तावद्बहुलोकप्रतीत एव किं तस्य ज्ञास्यते ?, विद्याधरह-त गतिः रणवृत्तान्तस्तु प्राप्त इति त्वदीयहाहारवात् प्रबुद्धास्तदा लोकाः, तैर्विज्ञाय नगरे प्रचारितो, मध्यमबुद्धिना चिन्तितं-अये! किलाहं मातुः-12 पुत्रोऽमुं व्यतिकरं गोपयामि यावता गाढतरं प्रकाशः संपन्नः, सुप्रच्छन्नमपि हि विहितं प्रयोजनं प्रायः प्रकाशत एव लोके, वि-18 शेषतः पापं, तस्माद्दुर्बुद्धिरेषा प्राणिनां यया स्वाचरितं पापं प्रच्छादयन्ति, इदं हि केवलमधिकतरं मोहविलसितं सूचयतीत्येवं विचिन्त्य ततस्तेनाभिहितं—मनीषिन्नमुं वृत्तान्तमुपलभ्य भवता किमाचरितं ? किं तातेन ? किमम्बाभ्यां ? किं वा नगरलोकेनेति श्रोतुमिच्छामि, मनीषिणोमनीषिणाऽभिहितं-भ्रातः! समाकर्णय, मम तावदुपेक्षा निर्गुणेषु सतामितिभावनया संजातं बालं प्रति माध्यस्थ्य, तथा क्लिश्यमा- ऽवस्था नेषु दयावन्तः सन्त इति पर्यालोचनया प्रादुर्भूता तवोपरि महती करुणा, तथा मुक्तोऽहं पापमित्राभिष्वङ्गजनितानामेवंविधानामपायानामित्याकलनया संजाताऽऽत्मन्यास्थाबुद्धिः, गुणाधिकेषु प्रमोदवन्तो महात्मान इतिविमर्शेन धन्यः पुण्यभागसौ भवजन्तुः येनार्य समस्तानर्थहेतुः स्पर्शनः पापवयस्यः सर्वथा निराकृत इत्यालोचयतः समुल्लसितस्तं प्रति हर्षः, तातेन तु केवलमट्टहासेन हसितं, मयाऽ* भिहितं-तात! किमेतत् ?, तातेनाभिहितं-पुत्र! यन्मयि प्रतिकूले संपद्यते तत्संपन्नं बालस्य, अतो मे हर्षः, हा जात ! क गतोऽसी- ॥१९॥ तिपरिदेवितं सामान्यरूपया, न सञ्जातो मामकतनयस्यापाय इति हृष्टा चित्तेन मदीयजननी, नगरस्य तु सम्पन्नो बालहरणेन प्रमोदः, Jain Educatio n al For Private & Personel Use Only wow.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy