________________
उपमितौ तृ. ३-प्र.
॥१९
॥
ततः स्थानात् प्रवेशितः कक्षान्तरे, अभिहितश्चासौ भ्रातः! यद्येष बालः सत्यं बाल इव नात्महितं जानीते तत्किं भवताऽस्य पृष्ठतो विलग्नेन मनीषिमविनष्टव्यम् ?, मध्यमबुद्धिराह-बोधितोऽहमिदानीं भवता, योऽयं भवदुपदेशमपि लङ्घयति तेनालं मम बालेनेति, अन्यच्चातिलज्जनीयो- ध्यमबु|ऽयं व्यतिकरः, तत्किमेष न ज्ञातस्तातेन, मनीषिणाऽभिहितं न केवलेन, तर्हि समस्तनगरोपेतेन, भद्र! केन हि प्रभातं पटकेनाच्छा- द्ध्योः संद्यते, मध्यमबुद्धिराह-कथं ज्ञातो?, मनीषिणाऽभिहितं कामदेवभवनवृत्तान्तस्तावद्बहुलोकप्रतीत एव किं तस्य ज्ञास्यते ?, विद्याधरह-त गतिः रणवृत्तान्तस्तु प्राप्त इति त्वदीयहाहारवात् प्रबुद्धास्तदा लोकाः, तैर्विज्ञाय नगरे प्रचारितो, मध्यमबुद्धिना चिन्तितं-अये! किलाहं मातुः-12 पुत्रोऽमुं व्यतिकरं गोपयामि यावता गाढतरं प्रकाशः संपन्नः, सुप्रच्छन्नमपि हि विहितं प्रयोजनं प्रायः प्रकाशत एव लोके, वि-18 शेषतः पापं, तस्माद्दुर्बुद्धिरेषा प्राणिनां यया स्वाचरितं पापं प्रच्छादयन्ति, इदं हि केवलमधिकतरं मोहविलसितं सूचयतीत्येवं विचिन्त्य ततस्तेनाभिहितं—मनीषिन्नमुं वृत्तान्तमुपलभ्य भवता किमाचरितं ? किं तातेन ? किमम्बाभ्यां ? किं वा नगरलोकेनेति श्रोतुमिच्छामि, मनीषिणोमनीषिणाऽभिहितं-भ्रातः! समाकर्णय, मम तावदुपेक्षा निर्गुणेषु सतामितिभावनया संजातं बालं प्रति माध्यस्थ्य, तथा क्लिश्यमा- ऽवस्था नेषु दयावन्तः सन्त इति पर्यालोचनया प्रादुर्भूता तवोपरि महती करुणा, तथा मुक्तोऽहं पापमित्राभिष्वङ्गजनितानामेवंविधानामपायानामित्याकलनया संजाताऽऽत्मन्यास्थाबुद्धिः, गुणाधिकेषु प्रमोदवन्तो महात्मान इतिविमर्शेन धन्यः पुण्यभागसौ भवजन्तुः येनार्य
समस्तानर्थहेतुः स्पर्शनः पापवयस्यः सर्वथा निराकृत इत्यालोचयतः समुल्लसितस्तं प्रति हर्षः, तातेन तु केवलमट्टहासेन हसितं, मयाऽ* भिहितं-तात! किमेतत् ?, तातेनाभिहितं-पुत्र! यन्मयि प्रतिकूले संपद्यते तत्संपन्नं बालस्य, अतो मे हर्षः, हा जात ! क गतोऽसी- ॥१९॥
तिपरिदेवितं सामान्यरूपया, न सञ्जातो मामकतनयस्यापाय इति हृष्टा चित्तेन मदीयजननी, नगरस्य तु सम्पन्नो बालहरणेन प्रमोदः,
Jain Educatio
n
al
For Private & Personel Use Only
wow.jainelibrary.org