SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. बालवृत्ता न्तः मया दत्ताऽऽहुतिरग्नौ भवता प्रक्षेप्तव्या, प्रतिपन्नमनेन, प्रारब्धो जापः, ततो विद्याधरेणाकृष्टा यमजिह्वेवातितीक्ष्णा भास्वराकारा शत्रिका, तया चोत्कर्त्तिता मदीयपृष्ठात्तेन दीर्घा मांसपेशी, निष्पीड्य तत एव प्रदेशात् निर्गालितं रुधिरं, भृतश्चुलुकः, अत्रान्तरे समाप्तमितरस्यैकं || विद्यापरावर्तनं, समर्पिता विद्याधरेण सा रुधिरमासमयी तस्याहुतिः, प्रक्षिप्ता तेनाग्निकुण्डे, पुनः प्रारब्धो जापः, ततश्चैवं सोऽम्बर|चरो मदीयशरीरपरापरप्रदेशान्नरकपाल इव नारकस्यारटतो मे मांसपेशीमुत्कर्त्तयति, तं प्रदेशं निष्पीड्य रुधिरं निर्गालयति, तस्य चुलुकं भृत्वा साधकायाहुतये ददाति, स च विद्यापरावर्तनसमाप्तौ गृहीत्वा हुताशने प्रक्षिपति, ततो वेदनाविह्वलो मूर्च्छया पतितोऽहं भूतले, विद्याधरस्तु प्रगुणशरीरतया हृष्टो निष्करुणो गाढतरं मां विकर्त्तयति, अत्रान्तरेऽदृट्टहासैर्हसितमिव प्रलयमेधैर्गुलगुलितमित्रं समुद्रेण प्रचलितेव पृथिवी रसितं दीप्तिजिह्वाभिः शिवाभिः प्रवृत्तं च विकृतरूपैर्वेतालैः निपतितं रुधिरवर्ष, ततश्चैवंविधेषु रौद्रेषु विभीषिकाविशेषेषु | सत्स्वप्यक्षुभितचित्तस्य राज्ञोऽभिमुखीभूता सा क्रूरविद्या, समाप्तं जापस्याष्टशतं, ततः सिद्धाऽहं भवत इति वदन्ती प्रकटीभूता विद्या | प्रणता साधकेन प्रविष्टा तच्छरीरे, ततः समुत्कर्तितशरीरं निष्पीडितरुधिरबीभत्सं करुणमारटन्तं मामुपलभ्य स राजा मयि जातः सदयः कृतोऽनेन दन्तसीत्कारः ततो वारितोऽसौ विद्याधरेण, अभिहितं च तेन-राजन्नेष एवास्या विद्यायाः कल्पो यदुत-न कर्त्तव्याऽस्योपरि दया, ततो विद्याधरेण लिप्तं मे केनचिल्लेपेन शरीरं, ततोऽहं समन्ताद्दन्दह्यमान इव तीव्रवह्निना चूर्ण्यमान इव वज्रेण पीड्यमान इव यत्रेण प्रविष्टो वेदनाप्रकर्ष, तथापि सुबद्धं न गतमेतन्मे हतजीवितं, संजातं मे क्षणेन तेन लेपेन दवदग्धस्थाणुकल्पं शरीरं, समुत्पाटितस्ताभ्यां नीतस्तत्र नगरे खादितश्च श्वयथुनिमित्तमाम्लभोजनं, शून्यं मे शरीरं, ततो भूयस्तेनैव विधिना मदीयमांसरुधिराहुतिभिस्तेन १धुरिका. २ गर्जितमिव मन्थायितमिवेति च स्यादत्र. ॥१८८॥ Jain Education a l For Private & Personel Use Only A jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy