________________
उपमिती
त्वमेतैर्न परिभूयसे, देवेनाभिहितं-अनुग्रहो मे, ततः कारयित्वा पाण्मासिका पूर्वसेवामितो दिनादष्टमे दिने नीतः कचित्तेन देवो हरितृ. ३-प्र. श्चन्द्रः, कारितोऽरिविद्यासाधनं, आनीतो द्वितीयदिने सह पुरुषेण, कृता तस्य पुरुषस्य मांसरुधिरेण होमक्रिया, सप्त दिनानि विद्यायाः ॥१८७॥
पश्चात्सेवा, मुक्तोऽसावधुना पुरुषः, स एव प्रायस्ते भ्राता भविष्यतीति मे वितर्कः, स च ममैव समर्पितोऽधुना देवेन, मध्यमबुद्धिराह
-भद्र ! यद्येवं ततो यद्यस्ति ममोपरि दया भवतस्ततस्तमानय तावदिहैव पुरुषं येनाहं प्रत्यभिजानामीति, ततश्चैवं करोमीत्यभिधाय गतो नन्दनः, समायातः समुत्पाट्य गृहीत्वा बालं, दृष्टोऽस्थिमात्रावशेष उच्छासनिःश्वासोपलक्ष्यमाणजीवितो निरुद्धवानसरो ४ मध्यमबुद्धिना बालः, प्रत्यभिज्ञातः कृच्छ्रेण, अभिहितो नन्दनः-भद्र! स एवायं मम भ्रातेति, सत्यं नन्दनस्त्वमसि, अनुगृहीतोऽहं बालमुक्तिः
भवता, नन्दनः प्राह-भद्र ! राजद्रौद्यमिदं भवत्करुणया मयाऽध्यवसितम् , अन्यच्चाधुना गतेन मया किलाकर्णितं यथा किल रात्रौ राजा
पुनस्तर्पयिष्यति रुधिरेण विद्यां भविष्यत्यनेन पुरुषेण प्रयोजनमिति, तदिदमवगम्य मम यद्भवति तद्भवतु भवद्भ्यां तु तूर्णमपक्रमि18 तव्यं, ततो यदाज्ञापयति भद्रो रक्षणीयश्च यत्नेन भद्रेणात्मेत्यभिधाय समुत्पाटितो बालः, प्रवृत्तो गन्तुं मध्यमबुद्धिः, ततो भयविधुरह-13
दयो धावन्नहर्निशं वेगेन कचित्प्रदेशे बालं पाययन्नुदकं समाहादयन वायुना प्रीणयन्नशनादिरसेनागणयन्नात्मनः शरीरपीडां महता क्लेशजा- बालवृत्तालेन प्राप्तः स्वस्थानं मध्यमबुद्धिः, गतानि कतिचिद्दिनानि, जातो मनाक् सबलो बालः, पृष्टो मध्यमबुद्धिना-भ्रातः! किं भवताऽनुभूतं ?, |स प्राह-इतस्तावदुत्क्षिप्तोऽहं बद्धा भवतः पश्यत एव गगनचारिणा, नीतः कृतान्तपुराकारमतिभीषणतयैकं स्मशानं, दृष्टस्तत्र प्रज्व-18 लिताङ्गारभृताग्निकुण्डपार्श्ववर्ती मया पुरुषः, ततस्तं प्रति तेनाम्बरचरेणाभिहितं-महाराज! सिद्धं ते समीहितं, लब्धोऽयं मया प्रस्तुत
॥१८७॥ विद्यासिद्धेरुचितः सलक्षणः पुरुषः, इतरेणोक्तं-महाप्रसादः, ततोऽभिहितो नभश्चरेण स पुरुषः-यदुतैकैकस्मिन् विद्याजापपर्यन्ते ।
CRICNNELCOMASALA
न्तः
SARAS
Jain Education in
For Private & Personel Use Only
ainelibrary.org