________________
उपमितौ
तृ. ३-प्र.
॥१८५॥
सा मादृशामितिचिन्तया दीर्घदीर्घतरं निःश्वसितं बालेन, तदर्थी खल्वयमिति लक्षितो मध्यमबुद्धिना, चिन्तितमनेन-तत्रापि स्थाने ता
बदस्यायमभिनिवेशो, जनयत्येव सा मदनकन्दली सुन्दरताऽतिशयेन स्वगोचरमभिलषितं, यतो द्वारशाखालग्नेन मयाऽप्यतिसङ्कटतया का-14 &ामसंवासभवनद्वारस्य निर्गच्छन्त्यास्तस्या मदनकन्दल्याः संवेदितोऽङ्गस्य स्पर्शो, न तादृशः प्रायेणान्यवस्तुनः स्पर्शो भुवने विद्यते, दोला-14
यितं ममापि तदभिसरणगोचरं मनस्तदानीमासीत् , किंतु न युक्तं कुलजानां परस्त्रीगमनं, तस्मान्निवारयाम्येनमपि यदि निवर्त्तते मदच-| नेन, ततः स बालं प्रत्याह-किमद्याप्यविद्या भवतः ?, किं न दृष्टमिदानीमेव फलमविनयस्य भवता, किमधुनैव विस्मृतं ? यत्कण्ठगतप्राणः कथञ्चिन्मोचितस्त्वं मया दुर्विनयकुपितात् भगवतो मकरध्वजात् , ततो निवर्त्तस्वास्माहुरध्यवसायात , नयनविषनागशिरोरत्नशूचिकल्पा हि सा मदनकन्दली, तां प्रार्थयतस्ते केवलं भस्मीभाव एव न पुनः काचिदर्थसिद्धिः, बालेन चिन्तितं-अये! लक्षितोऽहमनेन, तत्किमधुनाऽभिप्रायगोपनेन ?, ततस्तेनोक्तं यद्येवं ततः किं ब्रूषे मोचितस्त्वं मया ?, न पुनर्वृषे यथा गाढतरं मारित इति, यतस्तन कामेन युष्मद्वचनेन मां मुश्चता केवलं मे शरीरवेदनामात्रमपसारितं हृदये पुनर्निक्षिप्तो वितर्कपरम्परारूपः प्रज्वलितखदिराङ्गारराशिः, तेन ममेदं दह्यते समन्ताच्छरीरं, यद्यहं कामबन्धनकाल एवामरिष्यं नैतावन्तमन्तस्तापमन्वभविष्य, ततो भवता मोचयता प्रत्युत महानयमनर्थः संपादित इति, नाधुना ममैनाममृतसेकायमानां मदनकन्दली विरय्यान्यथाऽस्यान्तस्तापस्योपशमः, किंबहुनाऽत्र ज- मदनकन्दल्पितेनेति, ततो लक्षितो मध्यमबुद्धिनाऽस्यानिवर्त्तको निर्बन्धः, स्थितोऽसौ तूष्णीभावेन, अत्रान्तरे गतोऽस्तं सविता, बालहृदयादिवल्यै निगम समुल्लसितं तमःपटलं लवितः प्रथमः प्रदोषः निःसंचारीभूतो लोकः, ततोऽविचार्य कार्याकार्य समुत्थितो बालो निर्गतः स्वकीयभव- ॥१८५॥ नात् अवतीर्णो राजमार्ग प्रवृत्तः शत्रुमर्दनराजकुलाभिमुखं गन्तुं गतः कियन्तमपि भूभागं, इतश्च नेहवशेन किमस्य संपत्स्यत इति |
JainEducation intern
For Private
Personel Use Only
nelibrary.org