________________
20
उपमितौ
तृ. ३-अ.
॥१८४॥
महास्फोटेन क्षिप्तो भूतले, भग्ननयनः कण्ठगतप्राणोऽसौ दृष्टो लोकेन, तदनुमार्गेण दीनमनस्को निर्गतो मध्यमबुद्धिः, किमेतदिति पृष्टोसौ जनेन, लज्जया न किञ्चिजल्पितमनेन, ततोऽवतीर्य कञ्चित्पुरुषं व्यन्तरेण कथितो जनेभ्यस्तदीयव्यतिकरः, ततो देवापथ्यकारीति
व्यन्तरकृपापिष्ठोऽयमिति धिक्कारितोऽसौ बालो मकरध्वजभक्तैः कुलदूषणोऽयमस्माकं विषतरुरिव संपन्न इति गर्हितः खजातीयैः अनुभवतु पा- लता पीडा पकर्मणः फलमिदानीमित्याक्रोशितः सामान्यलोकैः कियदेतदसमीक्षितकारिणां समस्तानर्थभाजनत्वात् तेषामित्यपकर्णितो विवेकिलोकैः, ततोऽसौ व्यन्तरः कृतविकृतरूपः सन्नाह-चूर्णनीयोऽयं दुरात्मा भवतां पुरतो मयाऽधुना बाल इति, ततः कृतहाहारवः प्रसीदतु प्रसी
दतु भट्टारको ददातु भ्रातृप्राणभिक्षामिति ब्रुवाणः पतितो व्यन्तराधिष्ठितपुरुषपादयोर्मध्यमबुद्धिः, तत्करुणापरीतचेतसा लोकेनाप्यभिहितो काव्यन्तरो यदुत-भट्टारक! मुच्यतामेकवारं तावदेष न पुनः करिष्यतीति, ततो मध्यमबुद्धिकरुणया लोकोपरोधेन च मुक्तोऽसौ व्यन्त
रेण बालो लब्धा चेतना मुत्कलीभूतं शरीरं निःसारितस्तूर्ण देवकुलात् , मध्यमबुद्धिना नीतः कृच्छ्रेण स्वभवनं, ज्ञातोऽयं व्यतिकरः Mपरिकरात्कर्मविलासेन, चिन्तितमनेन–कियदेतद् ?, अद्यापि मयि प्रतिकूले बालस्य यद्भविष्यति तन्न लक्षयन्त्येते लोकाः, ततोऽभिहितः
कर्मविलासेन परिकर:-किमस्माकं दुविनीतचिन्तया ?, नोचितः सोऽनुशास्तेः न वोढव्यस्तदीयः केनापि व्यापारः, परिकरेणोक्तं-यदाज्ञापयति देव इति, पृष्टोऽसौ मध्यमबुद्धिना बाल:-भ्रातर्न किञ्चित्तेऽधुना शरीरके वाधते ?, बालेनाभिहितं-न शरीरके, केवलं प्रवर्द्धते ममान्तस्तापो, मध्यमबुद्धिराह-जानासि किन्निमित्तोऽयं, ततो वामशीलतया कामस्य बालः प्राह न जानामि, केवलं द्वारस्थितेन भवता तत्र संवासभवनमभिप्रविशन्ती गच्छन्ती वा किं विलोकिता काचिन्नारी न वा?, मध्यमबुद्धिराह-विलोकिता, बालेनोक्तं तत्किं
१८४॥ लक्षिता काऽसाविति भवता?, मध्यमबुद्धिराह-सुष्टु लक्षिता, सा हि शत्रुमर्दनस्य राज्ञो भार्या मदनकन्दलीत्युच्यते, तदाकर्ण्य कथं
Jain Education in
For Private & Personel Use Only
X
ainelibrary.org