________________
उपमितौ
तृ. ३-प्र.
॥ १८३ ॥
Jain Education
---
ततो मन्दप्रकाशे सा भवने मृगलोचना । हस्तस्पर्शेन शय्यायां देवमर्चयते किल ॥ ७७ ॥ चन्दनेन च कुर्वन्त्या, रतिकाम विलेपनम् । स बालः सर्वगात्रेषु स्पृष्टः कोमलपाणिना ।। ७८ ।। ततोऽकुशलमालाया, वशेन स्पर्शनस्य च । स बालश्चिन्तयत्येवं, विपर्यासितमा नसः ॥ ७९ ॥ यादृशोऽयं मृदुस्पर्शो, हस्तस्यास्यानुभूयते । नानुभूतो मया तादृग्, जन्मन्यपि कदाचन ॥ ८० ॥ अहो मयाऽन्यस्पर्शेषु, सौन्दर्य कल्पितं वृथा । नातः परतरं मन्ये, त्रिलोकेऽप्यस्ति कोमलम् ॥८१॥ इतश्च कामदेवस्य, परिचर्यां विधाय सा । स्वस्थानं प्रगता काले, राशी मदनकन्दली । ८२ ।। ततोऽसौ बालः कथं ममेयं स्त्री संपत्स्यत इति चिन्तया विह्वलीभूतहृदयोऽनाख्येयमन्तस्तापातिरेकं वेदयमानो विस्मृतात्मा तस्यामेव शय्यायां मुञ्चन् उष्णोष्णान् दीर्घदीर्घान् निःश्वासान् मूच्छित इव मूक इव मत्त इव हृतसर्वस्व इव ग्रहगृहीत इव तप्तशिलायां निक्षिप्तमत्स्यक इव इतश्चेतश्च परिवर्त्तमानो विचेष्टते, ततो द्वारे वर्त्तमानेन मध्यमबुद्धिना चिन्तितं - अये ! किमेत्येष बालोऽस्मात् संवासभवनादियताऽपि कालेन न निर्गच्छतीति किं वा करोतीति प्रविश्य तावन्निरूपयामि, ततः प्रविष्टो मध्यमबुद्धिर्लक्षिता हस्तस्पर्शेन कामशय्या, हृतमस्यापि हृदयं तत्कोमलतया, ततो विमलीभूतदृष्टिना तेन दृष्टः शय्यैकदेशे विचेष्टमानस्तदवस्थो बालः, चि न्तितमनेन — अहो किमनेनेदमकार्यमाचरितं ?, न युक्तं देवशय्यायामधिरोहणं, न खलु रतिरूपविभ्रमापि गुर्वङ्गना सतां गम्या भवति, तथेयं शय्या सुखदापि देवप्रतिमाधिष्ठितेतिकृत्वा केवलं वन्दनीया न पुनरुपभोगमर्हतीति ततश्चोत्थापितोऽनेन बालो यावन्न किश्विज्जल्पति, मध्यमबुद्धिराह — अहो अकार्यमिदं न युक्तं देवशय्यायामधिरोहणमित्यादि, तथापि न दत्तमुत्तरं वालेन, अत्रान्तरे प्रविष्टस्तद्देवकुलाधिष्ठायको व्यन्तरो, बद्धस्तेनाकाशवन्धैः बालः पातितो भूतले समुत्पादिताऽस्य सर्वाङ्गीणा तीव्रवेदना, ततो मुमूर्षन्तमुपलभ्य कृतो मध्यमबुद्धिना हाहारवः, ततः किमेतदिति संभ्रमेण चलितो देवकुलात्तदभिमुखं लोको, निःसारितो व्यन्तरेण वासभवनाद् बहिर्बालो,
For Private & Personal Use Only
राज्ञी
वाञ्छा
व्यन्तरकृता पीडा
॥ १८३ ॥
ainelibrary.org