________________
उपमितौ द्वारि संस्थाप्य मध्यमम् । मध्ये प्रविष्टः सहसा, स बालस्तस्य सद्मनः ।।५९॥ अथ तत्र सुविस्तीर्णा, संपर्यतां सतूलिकाम् । मृदूपधानसं-12 तृ. ३-अ. | पन्नां कोमलामलचेलिकाम् ॥६०॥ सुप्तेन रतियुक्तेन, कान्तमध्यां मनोभुवा । स ददर्श महाशय्यां, देवानामपि दुर्लभाम् ॥६१॥ युग्मम्। कामश
ततो मन्दप्रकाशत्वात् , संवासभवनस्य सः । किमेतदिति संचिन्त्य, शय्यां पस्पर्श बालकः ॥ ६२ ॥ इतश्वेतश्च हस्तेन, स्पृशता सुचिरं य्याss॥१८२॥
मुदा । ततो विभाविताऽनेन, शय्यैषा मकरध्वजी ॥ ६३ ॥ विचिन्तितं च तत्स्पर्शकोमल्यहृतचेतसा । अहो कोमलता मन्ये, नान्यत्र भवतीदृशी ॥ ६४ ॥ ततः शरीरवर्त्तिन्या, जनन्या स्पर्शनेन च । प्रेर्यमाणः स्वकीयेन, चापलेन च दूषितः ॥६५॥ स बालश्चिन्तयत्येवं, मानयामि यथेच्छया । एना कोमलिकां शय्यां, सुप्त्वाऽहं क्षणमात्रकम् ॥ ६६ ॥ देवः सुप्तोऽत्र मदनो, रतियुक्तो न चिन्तितम् । अपायो देवशय्यायां, सुप्तस्येति न भावितम् ॥ ६७ ॥ दृष्टस्य लाघवं लोकैरिति नैव मनः कृतम् । विज्ञातं नेति संपत्स्ये, हास्यो मध्यमबु|द्धितः॥ ६८ ॥ युग्मम् । अनालोच्यायति मोहात् , केवलं सुप्त एव सः । आरुह्य शय्यां तां दिव्यां, कृतं बालविचेष्टितम् ।। ६९ ॥
ततस्तस्यां विशालायां, शय्यायां बद्धमानसः । इतश्चेतश्च कुर्वाणः, सर्वाङ्गाणि पुनः पुनः॥ ७० ॥ अहो सुखमहो स्पर्शस्तथाऽहो धन्यता | 15 मम । चिन्तयन्निति शय्यायां, लुठमानः स तिष्ठति ॥ ७१ ॥ इतश्च नगरे तत्र, बहिरङ्गो नृपोत्तमः । अन्योऽप्यस्ति महातेजाः, प्रख्यातः।
शत्रुमर्दनः ।। ७२ ।। तस्यास्ति पद्मपत्राक्षी, प्राणेभ्योऽपि सुवल्लभा । प्रधानकुलसंभूता, देवी मदनकन्दली ।। ७३ ।। ग्राहितार्च निका सा च, परिवारेण संयुता । आयाता तत्र सदने, कामदेवस्य पूजिका ॥ ७४ ॥ देवकोष्ठस्थितं सा च, संपूज्य मकरध्वजम् । संवासभवनस्थस्य,
॥१८२॥ प्रविष्टा तस्य पूजिका ।। ७५ ॥ प्रविशन्तीमुदीक्ष्यासौ, तां स्त्रीतिकृतनिश्चयः । लज्जाभयाभ्यां निश्चेष्टो, बालः काष्ठमिव स्थितः ॥ ७६ ॥5
१ सुपर्यकां प्र. २ सुतूलिकाम् प्र. ३ चेलं-वनं.
।
Jain Educational
For Private & Personel Use Only
H
jainelibrary.org