SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 56456 उपमिती तृ. ३-प्र. अनङ्गात्रयोदशीक्षण: ॥१८१॥ संजाताः काननाभोगाः, सुमनोभरपूरिताः । भ्रमद्भमरझङ्कारतारगीतमनोहराः ॥ ४२ ॥ कामिनीहृदयानन्ददायकं प्रियसन्निधौ । विज़म्भते वनान्तेषु, केकिकोकिलकूजितम् ।। ४३ ॥ प्रोत्फुल्लकिंशुकाग्रेषु, पुष्पभारोऽतिरक्तकः । वियोगदलितस्त्रीणां, पिशितप्रकरायते ॥४४॥ मर्यः सहकाराणामामोदितदिगन्तराः । हृष्टा वसन्तराजेन, धूलिक्रीडां प्रकुर्वते ॥ ४५ ॥ देवकिन्नरसम्बन्धिमिथुनैः कथिता वने । भ्र-| मेण नाकान्मर्त्यस्य, तदानीं रमणीयता ॥ ४६ ॥ वल्लो निर्भरीभूत्वा, बद्ध्वा दोला गृहे गृहे । मदनोद्दीपने मन्द, प्रवृत्तो मलयानिलः ॥४७॥ अथेदृशे वसन्तेऽसौ, सह मध्यमबुद्धिना । क्रीडार्थ निर्गतो बालः, कामकालप्रमोदितः ॥ ४८ ॥ जनन्या देहवर्तिन्या, संयुक्तः स्पर्शनेन च । गतो लीलाधरं नाम, सोद्यानं नन्दनोपमम् ॥ ४९ ॥ तस्यास्ति मध्यभूभागे, शुभ्रशृङ्गो महालयः । जनानयनानन्दः, प्रासादस्तुगतोरणः ॥ ५० ॥ कामिनीहृदयाह्लादकारको रतिवत्सलः । जनैः प्रतिष्ठितस्तत्र, देवो मकरकेतनः ॥ ५१ ॥ इतश्च तस्य देवस्य, पूजासत्कारकारणम् । तिथिः क्रमेण संजाता, दिने तत्र त्रयोदशी ।। ५२ ।। कन्यका वरलाभाय, वध्वः सौभाग्यवृद्धये । दुर्भगास्तु |पतिप्रेममोहेन हृतमानसाः ॥ ५३ ।। मोहान्धाः कामिनोऽभीष्टयोषित्सम्बन्धसिद्धये । गृहीतार्च निकाः कामपूजनार्थ समागताः॥ ५४॥ युग्मम् । ततो बालो मेहारोलं, तत्राकर्ण्य सविस्मयः । प्रविष्टः कामसदनं, सह मध्यमबुद्धिना ॥ ५५ ॥ दृष्टस्तत्र रते थः, प्रणतो भक्तिपूर्वकम् । पूजितश्च प्रयत्नेन, संस्तुतो गुणकीर्त्तनैः ॥ ५६ ।। अथ प्रदक्षिणां तस्य, ददानो देवसद्मनः । बालो ददर्श पार्श्वस्थं, गुप्तस्थाने व्यवस्थितम् ।। ५७॥ तस्यैव रतिनाथस्य, देवस्य कृतकौतुकम् । संवासभवनं रम्यं, मन्दमन्दप्रकाशकम् ॥५८॥ युग्मम् । कुतूहलवशेनाथ, २ आभोगाः देशाः. ३ हारि० प्र० ४ देवावासात. ५मनुष्यस्य. ६ (भूता). ७ (बद्धा). ८ जनसमूहः. ॥१८॥ १ कानने भोगाः प्र. ल९ कोलाहलं. उ. भ. १६ Jain Education a l For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy