SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 2-60-4 उपमितौ तृ. ३-प्र. अज्ञानजदोषस्वरूपं ॥१८ ॥ तस्य, वर्तमानौ क्षणे क्षणे । अभिलाषं मृदुस्पर्श, कुरुतस्तीत्रवेदनम् ॥ २४ ॥ परित्यक्तान्यकर्त्तव्यस्तावन्मात्रपरायणः । स बालः सुरतादीनि, दिवा रात्रौ च सेवते ॥ २५ ॥ कुविन्दडोम्बमातङ्गजातीयावपि तद्वशः । अतिलौल्येन मूढात्मा, ललनासु प्रवर्त्तते ॥ २६ ॥ ततोऽकर्त्तव्यनिरतं, सत्कर्त्तव्यपराङ्मुखम् । तं बालं सकलो लोकः, पापिष्ठ इति निन्दति ॥ २७ ॥ अज्ञोऽयं गतलज्जोऽयं, निर्भाग्यः कुलदूषणः । स एवं निन्द्यमानोऽपि, मन्यते निजचेतसि ।। २८ ॥ स्पर्शनाम्बाप्रसादेन, ममास्ति सुखसागरः । लोको यद्वक्ति तद्वक्तु, किमेतज्जल्पचिन्तया॥२९॥ युग्मम् । अथाकुशलमालाऽपि, निर्गत्य परिपृच्छति। कीदृशी मामिकी जात !, योगशक्तिर्विभाति ते? ॥३०॥ स प्राहानुगृहीतोऽस्मि, निर्विकल्पोऽहमम्बया । सुखसागरमध्येऽत्र, यथाऽहं संप्रवेशितः ॥ ३१ ॥ अन्यच्चाम्ब ! त्वया नित्यं, मदनुग्रहकाम्यया । न मोक्तव्यं शरीरं मे, यावज्जीवं स्वतेजसा ॥ ३२ ॥ अथाकुशलमालाऽऽह, यत्तुभ्यं वत्स! रोचते । तदेव सततं कार्य, मया मुक्तान्यचेष्टया ॥ ३३ ॥ स्वाधीनां तां निरीक्ष्यैवं, बालेन परिचिन्तितम् । स्पर्शनोऽपि ममायत्तः, सामग्री सर्वसाधिका ॥ ३४ ॥ अहो मे धन्यता लोके, नास्त्यतो बत मादृशः । ततोऽसौ गाढहृष्टात्मा, स्वानुरूपं विचेष्टते ॥ ३५ ॥ अथ निन्दापरे लोके, स्नेहविह्वलमानसः । लोकापवादभीरुत्वान्मध्यबुद्धिः प्रभाषते ॥ ३६ ।। बाल! नो युज्यते कर्तुं, तव लोकविरुद्धकम् । अगम्यागमनं निन्द्यं, सपापं कुलदूषणम ॥३७ ।। स प्राह विप्रलब्धोऽसि, नूनं मित्र! मनीषिणा । स्वर्गे विवर्त्तमानं मां, नेक्षसे कथमन्यथा? ॥ ३८ ॥ ये मूढा जातिदोषेण, कोमलं ललनादिकम् । नेच्छन्ति ते महारत्नं, मुञ्चन्ति स्थानदोषतः ॥ ३९ ।। तदाकर्ण्य ततश्चित्ते, कृतं मध्यमबुद्धिना । नैष प्रज्ञापनायोग्यो, व्यर्थो मे वाक्परिश्रमः ॥४०॥ एवं च तिष्ठतां तेषां, बालमध्यमनीषिणाम् । अथान्यदा समायातो, वसन्तः कृतमन्मथैः ॥४१॥ १ कार्यसाधिका प्र. २ कृतमन्मथाः प्र. ॥१८ ॥ सब Join Education in For Private & Personel Use Only widainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy