SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 2-60-4 उपमितौ तृ. ३-प्र. अज्ञानजदोषस्वरूपं ॥१८ ॥ तस्य, वर्तमानौ क्षणे क्षणे । अभिलाषं मृदुस्पर्श, कुरुतस्तीत्रवेदनम् ॥ २४ ॥ परित्यक्तान्यकर्त्तव्यस्तावन्मात्रपरायणः । स बालः सुरतादीनि, दिवा रात्रौ च सेवते ॥ २५ ॥ कुविन्दडोम्बमातङ्गजातीयावपि तद्वशः । अतिलौल्येन मूढात्मा, ललनासु प्रवर्त्तते ॥ २६ ॥ ततोऽकर्त्तव्यनिरतं, सत्कर्त्तव्यपराङ्मुखम् । तं बालं सकलो लोकः, पापिष्ठ इति निन्दति ॥ २७ ॥ अज्ञोऽयं गतलज्जोऽयं, निर्भाग्यः कुलदूषणः । स एवं निन्द्यमानोऽपि, मन्यते निजचेतसि ।। २८ ॥ स्पर्शनाम्बाप्रसादेन, ममास्ति सुखसागरः । लोको यद्वक्ति तद्वक्तु, किमेतज्जल्पचिन्तया॥२९॥ युग्मम् । अथाकुशलमालाऽपि, निर्गत्य परिपृच्छति। कीदृशी मामिकी जात !, योगशक्तिर्विभाति ते? ॥३०॥ स प्राहानुगृहीतोऽस्मि, निर्विकल्पोऽहमम्बया । सुखसागरमध्येऽत्र, यथाऽहं संप्रवेशितः ॥ ३१ ॥ अन्यच्चाम्ब ! त्वया नित्यं, मदनुग्रहकाम्यया । न मोक्तव्यं शरीरं मे, यावज्जीवं स्वतेजसा ॥ ३२ ॥ अथाकुशलमालाऽऽह, यत्तुभ्यं वत्स! रोचते । तदेव सततं कार्य, मया मुक्तान्यचेष्टया ॥ ३३ ॥ स्वाधीनां तां निरीक्ष्यैवं, बालेन परिचिन्तितम् । स्पर्शनोऽपि ममायत्तः, सामग्री सर्वसाधिका ॥ ३४ ॥ अहो मे धन्यता लोके, नास्त्यतो बत मादृशः । ततोऽसौ गाढहृष्टात्मा, स्वानुरूपं विचेष्टते ॥ ३५ ॥ अथ निन्दापरे लोके, स्नेहविह्वलमानसः । लोकापवादभीरुत्वान्मध्यबुद्धिः प्रभाषते ॥ ३६ ।। बाल! नो युज्यते कर्तुं, तव लोकविरुद्धकम् । अगम्यागमनं निन्द्यं, सपापं कुलदूषणम ॥३७ ।। स प्राह विप्रलब्धोऽसि, नूनं मित्र! मनीषिणा । स्वर्गे विवर्त्तमानं मां, नेक्षसे कथमन्यथा? ॥ ३८ ॥ ये मूढा जातिदोषेण, कोमलं ललनादिकम् । नेच्छन्ति ते महारत्नं, मुञ्चन्ति स्थानदोषतः ॥ ३९ ।। तदाकर्ण्य ततश्चित्ते, कृतं मध्यमबुद्धिना । नैष प्रज्ञापनायोग्यो, व्यर्थो मे वाक्परिश्रमः ॥४०॥ एवं च तिष्ठतां तेषां, बालमध्यमनीषिणाम् । अथान्यदा समायातो, वसन्तः कृतमन्मथैः ॥४१॥ १ कार्यसाधिका प्र. २ कृतमन्मथाः प्र. ॥१८ ॥ सब Join Education in For Private & Personel Use Only widainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy