SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ उपमिती तु. ३-प्र. अज्ञानजदोषस्वरूपं ॥१७९॥ ॥५॥ अथवा-मिथ्यात्वोहलनं यस्मादस्माभिरपि साम्प्रतम् । दुर्लभं भवकोटीभिः, प्राप्तं सम्यक्त्वमुत्तमम् ॥ ६॥ अतोऽस्ति धन्यता काचिदस्माकमपि सर्वथा । नरो दारिद्यभाइ नैव, लभते रत्नपुञ्जकम् ।। ७॥ ततः सहर्षों तौ सूरेः, प्रणम्य चरणद्वयम् । तेनानुशिष्टौ स्वस्थानं, संप्राप्तौ देवदम्पती ॥ ८॥ प्रविष्टा भोगतृष्णाऽपि, शरीरे गच्छतोस्तयोः । शुद्धसम्यक्त्वमाहात्म्यात् , केवलं सा न बाधिका ॥ ९ ॥ विचक्षणाऽऽह कालज्ञमन्वदा रहसि स्थिता । आर्यपुत्र! यदा दृष्टा, त्वयाऽहं कृतवञ्चना ॥ १०॥ तदा किं चिन्तितं? सोऽपि, स्वाभिप्रायं न्यवेदयत् । विचक्षणाऽऽह सत्यस्त्वं, कालज्ञ इति गीयसे ॥११॥ युग्मम् । तेनापि पृष्टा सोवाच, पर्यालोचं तदाननम् । कालज्ञः प्राह सत्येव, त्वमप्यत्र विचक्षणा ॥ १२ ॥ यतः कालविलम्बेन, क्रियमाणेन वल्लभे! । भोगा भुक्ताः स्थिता प्रीतिर्जातं नाकाण्डविड्वरम् ॥ १३ ॥ प्राप्तो धर्मो नृपादीनामुपकारः कृतो महान् । ततः कालविलम्बोऽयं, फलितोऽत्यर्थमावयोः ॥ १४ ॥ विचक्षणाऽऽह को वाऽत्र?, सन्देहो नाथ! वस्तुनि । किं वा न जायते चारु, पर्यालोचितकारिणाम् ? ॥१५॥ ततः प्रीतिसमायुक्तौ, संजातौ देवदम्पती । सद्धर्मलाभादात्मानं, मन्यमानौ कृतार्थकम् ॥१६॥ इदं पुत्र! मया तुभ्यं, कथितं मिथुनद्वयम् । संदिग्धेऽर्थे विलम्बेन, कालस्य गुणभाजनम् ।। १७ ॥ ततश्च-संदिग्धेऽर्थे विधातव्या, भवता कालयापना । पश्चाद् बहुगुणं यच्च, तदेवाङ्गीकरिष्यते ॥ १८ ॥ मध्यमबुद्धिराह-यदाऽऽज्ञापयत्यम्बा,-ततो गनीषिणो वाक्यं, स्मरतो नास्य जायते । प्रीतिबन्धो दृढं तत्र, स्पर्शने भाववैरिणि ।। १९॥ बालालापैः पुनस्तत्र, स्नेहबुद्धिः प्रवर्त्तते । दोलायमानोऽसौ चित्ते, कुरुते कालयापनाम् ॥ २० ॥ इतश्च तेन बालेन, सा प्रोक्ता जननी निजा । अम्ब! संदर्शयात्मीयं, योगशक्तिबलं मम ।। २१॥ तयोक्तं दर्शयाम्येषा, पुत्र! त्वं संमुखो भव । ततः सा ध्यानमापूर्य, प्रविष्टा तच्छरीके ॥ २२ ॥ अथाकुशलमालायाः, प्रवेशानन्तरं पुनः । स बालः स्पर्शनेनापि, गाद हर्षादधिष्ठितः ॥ २३ ॥ ततः शरीरे तो ॥ १७९॥ Jain Education pre For Private & Personel Use Only HTMainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy