SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ उपमिती तु. ३-प्र. अज्ञानजदोषस्वरूपं ॥१७९॥ ॥५॥ अथवा-मिथ्यात्वोहलनं यस्मादस्माभिरपि साम्प्रतम् । दुर्लभं भवकोटीभिः, प्राप्तं सम्यक्त्वमुत्तमम् ॥ ६॥ अतोऽस्ति धन्यता काचिदस्माकमपि सर्वथा । नरो दारिद्यभाइ नैव, लभते रत्नपुञ्जकम् ।। ७॥ ततः सहर्षों तौ सूरेः, प्रणम्य चरणद्वयम् । तेनानुशिष्टौ स्वस्थानं, संप्राप्तौ देवदम्पती ॥ ८॥ प्रविष्टा भोगतृष्णाऽपि, शरीरे गच्छतोस्तयोः । शुद्धसम्यक्त्वमाहात्म्यात् , केवलं सा न बाधिका ॥ ९ ॥ विचक्षणाऽऽह कालज्ञमन्वदा रहसि स्थिता । आर्यपुत्र! यदा दृष्टा, त्वयाऽहं कृतवञ्चना ॥ १०॥ तदा किं चिन्तितं? सोऽपि, स्वाभिप्रायं न्यवेदयत् । विचक्षणाऽऽह सत्यस्त्वं, कालज्ञ इति गीयसे ॥११॥ युग्मम् । तेनापि पृष्टा सोवाच, पर्यालोचं तदाननम् । कालज्ञः प्राह सत्येव, त्वमप्यत्र विचक्षणा ॥ १२ ॥ यतः कालविलम्बेन, क्रियमाणेन वल्लभे! । भोगा भुक्ताः स्थिता प्रीतिर्जातं नाकाण्डविड्वरम् ॥ १३ ॥ प्राप्तो धर्मो नृपादीनामुपकारः कृतो महान् । ततः कालविलम्बोऽयं, फलितोऽत्यर्थमावयोः ॥ १४ ॥ विचक्षणाऽऽह को वाऽत्र?, सन्देहो नाथ! वस्तुनि । किं वा न जायते चारु, पर्यालोचितकारिणाम् ? ॥१५॥ ततः प्रीतिसमायुक्तौ, संजातौ देवदम्पती । सद्धर्मलाभादात्मानं, मन्यमानौ कृतार्थकम् ॥१६॥ इदं पुत्र! मया तुभ्यं, कथितं मिथुनद्वयम् । संदिग्धेऽर्थे विलम्बेन, कालस्य गुणभाजनम् ।। १७ ॥ ततश्च-संदिग्धेऽर्थे विधातव्या, भवता कालयापना । पश्चाद् बहुगुणं यच्च, तदेवाङ्गीकरिष्यते ॥ १८ ॥ मध्यमबुद्धिराह-यदाऽऽज्ञापयत्यम्बा,-ततो गनीषिणो वाक्यं, स्मरतो नास्य जायते । प्रीतिबन्धो दृढं तत्र, स्पर्शने भाववैरिणि ।। १९॥ बालालापैः पुनस्तत्र, स्नेहबुद्धिः प्रवर्त्तते । दोलायमानोऽसौ चित्ते, कुरुते कालयापनाम् ॥ २० ॥ इतश्च तेन बालेन, सा प्रोक्ता जननी निजा । अम्ब! संदर्शयात्मीयं, योगशक्तिबलं मम ।। २१॥ तयोक्तं दर्शयाम्येषा, पुत्र! त्वं संमुखो भव । ततः सा ध्यानमापूर्य, प्रविष्टा तच्छरीके ॥ २२ ॥ अथाकुशलमालायाः, प्रवेशानन्तरं पुनः । स बालः स्पर्शनेनापि, गाद हर्षादधिष्ठितः ॥ २३ ॥ ततः शरीरे तो ॥ १७९॥ Jain Education pre For Private & Personel Use Only HTMainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy