________________
6-09
उपमितौ तृ. ३-प्र.
अज्ञानजदोषस्वरूपं
॥१७७॥
“जराऽप्यज्ञानमुच्यते । अज्ञानं विपदः सर्वा, अज्ञानं मरणं मतम् ॥ १०॥ अज्ञानविरहे नैष, घोरः संसारसागरः। अत्रापि वसतां पुंसां, | "बाधकः प्रतिभासते ॥ ११॥ याः काश्चिदप्यवस्थाः स्युर्याश्चोन्मार्गप्रवृत्तयः । यच्चासम जसं किञ्चिदज्ञानं तत्र कारणम् ॥ १२ ॥ त एव “हि प्रवर्त्तन्ते, पापकर्मसु जन्तवः । प्रकाशाच्छादकं येषामेतञ्चेतसि वर्त्तते ॥ १३ ॥ येषां पुनरिदं चित्ताद्धन्यानां विनिवर्त्तते । शुभ्रीभूता"न्तरात्मानस्ते सदाचारवर्तिनः ॥१४॥ वन्द्यास्त्रिभुवनस्यापि, भूत्वा भावितमानसाः । अशेषकल्मषोन्मुक्ता, गच्छन्ति परमं पदम् ॥१५॥ "एतच्चाज्ञानमत्रार्थे, सर्वेषां भवतां समम् । संजातं तेन दोषोऽयमस्यैव न भवादृशाम् ॥ १६ ॥ डिम्भरूपमनेनैव, द्वितीयं पापनामकम् । "सर्वत्र जन्यते तस्मादत्रापि जनितं किल ॥ १७ ॥ एतद्धि सर्वदुःखाना, कारणं वर्णितं बुधैः । उद्वेगसागरे घोरे, हठादेतत्प्रवर्तकम् “॥ १८ ॥ मूलं संक्लेशजालस्य, पापमेतदुदाहृतम् । न कर्त्तव्यमतः प्राज्ञैः, सर्वं यत्पापकारणम् ॥ १९॥ हिंसानृतादयः पञ्च, तत्त्वाश्र"द्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः ॥ २० ॥ वर्जनीयाः प्रयत्नेन, तस्मादेते मनीषिणा । ततो न जायते पापं' "तस्मान्नो दुःखसंभवः ॥२१॥ युष्माकं पुनरज्ञानाजातं पापमिदं यतः । अज्ञानमेव सर्वेषां, हिंसादीनां प्रवर्तकम् ॥ २२ ॥ वर्द्धमानमिदं | "पापमार्जवेन निवारितम् । यदत्र कारणं सम्यक् , कथ्यमानं निबोधत ॥२३॥ आर्जवं हि स्वरूपेण, शुद्धाशयकरं परम् । वर्द्धमानमतः | "पापं, वारयत्येव देहिनाम् ॥ २४ ॥ एतच्चार्जवमत्रार्थे, सर्वेषां वर्त्तते समम् । अज्ञानजनितं पापं, युष्माकममुना जितम् ॥२५॥ रक्षि| "तानि मया यूयमत एव मुहुर्मुहुः । सहर्षमेतदाचष्टे, डिम्भरूपं स्मिताननम् ॥ २६ ॥ धन्यानामार्जवं येषामेतञ्चेतसि वर्त्तते । अज्ञानादा| "चरन्तोऽपि, पापं ते स्वल्पपापकाः ॥ २७ ॥ यदा पुनर्विजानन्ति, ते शुद्ध मार्गमञ्जसा । तदा विधूय कर्माणि, चेष्टन्ते मोक्षवर्मनि "॥ २८ ॥ आर्जवेन ततो धन्यास्ते शुभ्रीभूतमानसाः। निर्मलाचारविस्ताराः, पारं गच्छन्ति संसृतेः ॥ २९ ॥ तदेवंविधभावानां, भद्राणां
॥१७७॥
Jain Educati
o nal
For Private & Personel Use Only
A
w.jainelibrary.org