SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥१७६॥ तृतीयं डिम्भरूपं, तच्च वर्द्धितुमारब्धं, ततः शुक्लडिम्भरूपेण मस्तके हस्ततलप्रहारं दत्त्वा तद्वर्द्धमानं निवार्य प्रकृत्या धारितं, निर्गते च भगवदनुग्रहात् द्वे अपि ते कृष्णे डिम्भरूपे, ततो भगवताऽभिहितं-भो भद्राणि! यद्भवद्भिश्चिन्तितं यथा कृतमस्माभिर्विपरीताचरणमिति न तत्र भवद्भिविषादो विधेयः, यतो न भवतामेष दोषो, निर्मलानि यूयं स्वरूपेण, तैरभिहितं-भगवन् ! कस्य पुनरेष दोषो?, भगवानाह-यदिदं शुक्लानन्तरं भवच्छरीरेभ्यो निर्गतं कृष्णवर्ण डिम्भरूपम् अस्यायं दोषः, तान्याहुः-भगवन् ! किन्नामकमिदं ? भगवतोक्तम्अज्ञानमिदमुच्यते, तैरुक्तं-भगवन् ! यदिदमेतस्मादज्ञानात्प्रादुर्भूतं द्वितीयं कृष्णडिम्भरूपम् अनेन च शुक्लरूपेणास्फोट्य वर्द्धमानं धारितमेतत्किन्नामकं?, भगवानाह-पापमिदं, तान्याहुः-अस्य शुक्लडिम्भरूपस्य तर्हि किमभिधानं ?, भगवतोक्तं-आर्जवमिदमभिधीयते, ततस्तान्याहुः-भगवन् ! कीदृशमिदमज्ञानं कथं चेदं पापमेतस्माज्जातं ? किमिति चानेनार्जवेनेदं विवर्द्धमानं धारितमिति सर्व विस्तरतः "श्रोतुमिच्छामो, भगवानाह—यद्येवं ततः समाकर्णयत यूयम्-'यत्तावदिदमज्ञानं, युष्मदेहाद्विनिर्गतम् । एतदेव समस्तस्य, दोषवृन्दस्य | "कारणम् ॥ १॥ अनेन वर्तमानेन, शरीरे जन्तवो यतः । कार्याकार्य न जानन्ति, गम्यागम्यं च तत्त्वतः ॥२॥ भक्ष्याभक्ष्यं न बुध्य"न्ते, पेयापेयं च सर्वथा । अन्धा इव कुमार्गेण, प्रवर्त्तन्ते ततः परम् ॥ ३ ॥ ततो निबध्य घोराणि, कर्माण्यकृतशम्बलाः । भवमार्गे "निरन्तेऽत्र, पर्यटन्ति सुदुःखिताः ॥ ४ ॥ अज्ञानमेव सर्वेषां, रागादीनां प्रवर्तकम् । स्वकार्ये भोगतृष्णाऽपि, यतोऽज्ञानमपेक्षते ॥ ५॥ “अज्ञानविरहेणैव, भोगतृष्णा निवर्त्तते । कथञ्चित्संप्रवृत्ताऽपि, झटियेव निवर्त्तते ॥ ६ ॥ सर्वज्ञः सर्वदर्शी च, निर्मलोऽयं स्वरू“पतः । अज्ञानमलिनो ह्यात्मा, पाषाणान्न विशेष्यते ।। ७ ॥ याः काश्चिदेव मर्येषु, निर्वाणे च विभूतयः । अज्ञानेनैव ताः सर्वा, हृताः | "सन्मार्गरोधिना ॥ ८ ॥ अज्ञानं नरको घोरस्तमोरूपतया मतम् । अज्ञानमेव दारिद्यमज्ञानं परमो रिपुः ॥ ९॥ अज्ञानं रोगसंघातो, अज्ञानजदोषस्वरूपं G ॥१७६॥ Jain Education For Private & Personal Use Only ITMainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy