SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥१७६॥ तृतीयं डिम्भरूपं, तच्च वर्द्धितुमारब्धं, ततः शुक्लडिम्भरूपेण मस्तके हस्ततलप्रहारं दत्त्वा तद्वर्द्धमानं निवार्य प्रकृत्या धारितं, निर्गते च भगवदनुग्रहात् द्वे अपि ते कृष्णे डिम्भरूपे, ततो भगवताऽभिहितं-भो भद्राणि! यद्भवद्भिश्चिन्तितं यथा कृतमस्माभिर्विपरीताचरणमिति न तत्र भवद्भिविषादो विधेयः, यतो न भवतामेष दोषो, निर्मलानि यूयं स्वरूपेण, तैरभिहितं-भगवन् ! कस्य पुनरेष दोषो?, भगवानाह-यदिदं शुक्लानन्तरं भवच्छरीरेभ्यो निर्गतं कृष्णवर्ण डिम्भरूपम् अस्यायं दोषः, तान्याहुः-भगवन् ! किन्नामकमिदं ? भगवतोक्तम्अज्ञानमिदमुच्यते, तैरुक्तं-भगवन् ! यदिदमेतस्मादज्ञानात्प्रादुर्भूतं द्वितीयं कृष्णडिम्भरूपम् अनेन च शुक्लरूपेणास्फोट्य वर्द्धमानं धारितमेतत्किन्नामकं?, भगवानाह-पापमिदं, तान्याहुः-अस्य शुक्लडिम्भरूपस्य तर्हि किमभिधानं ?, भगवतोक्तं-आर्जवमिदमभिधीयते, ततस्तान्याहुः-भगवन् ! कीदृशमिदमज्ञानं कथं चेदं पापमेतस्माज्जातं ? किमिति चानेनार्जवेनेदं विवर्द्धमानं धारितमिति सर्व विस्तरतः "श्रोतुमिच्छामो, भगवानाह—यद्येवं ततः समाकर्णयत यूयम्-'यत्तावदिदमज्ञानं, युष्मदेहाद्विनिर्गतम् । एतदेव समस्तस्य, दोषवृन्दस्य | "कारणम् ॥ १॥ अनेन वर्तमानेन, शरीरे जन्तवो यतः । कार्याकार्य न जानन्ति, गम्यागम्यं च तत्त्वतः ॥२॥ भक्ष्याभक्ष्यं न बुध्य"न्ते, पेयापेयं च सर्वथा । अन्धा इव कुमार्गेण, प्रवर्त्तन्ते ततः परम् ॥ ३ ॥ ततो निबध्य घोराणि, कर्माण्यकृतशम्बलाः । भवमार्गे "निरन्तेऽत्र, पर्यटन्ति सुदुःखिताः ॥ ४ ॥ अज्ञानमेव सर्वेषां, रागादीनां प्रवर्तकम् । स्वकार्ये भोगतृष्णाऽपि, यतोऽज्ञानमपेक्षते ॥ ५॥ “अज्ञानविरहेणैव, भोगतृष्णा निवर्त्तते । कथञ्चित्संप्रवृत्ताऽपि, झटियेव निवर्त्तते ॥ ६ ॥ सर्वज्ञः सर्वदर्शी च, निर्मलोऽयं स्वरू“पतः । अज्ञानमलिनो ह्यात्मा, पाषाणान्न विशेष्यते ।। ७ ॥ याः काश्चिदेव मर्येषु, निर्वाणे च विभूतयः । अज्ञानेनैव ताः सर्वा, हृताः | "सन्मार्गरोधिना ॥ ८ ॥ अज्ञानं नरको घोरस्तमोरूपतया मतम् । अज्ञानमेव दारिद्यमज्ञानं परमो रिपुः ॥ ९॥ अज्ञानं रोगसंघातो, अज्ञानजदोषस्वरूपं G ॥१७६॥ Jain Education For Private & Personal Use Only ITMainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy