________________
उपमितौ तृ. ३-प्र. ॥१७५॥
भोगतष्णास्वरूप
॥ १८ ॥ खरूपेण सदा भद्रौ, निर्मलौ परमार्थतः । एषैव सर्वदोषाणां, कारणत्वेन संस्थिता ॥ १९ ॥ इह स्थातुमशक्तिष्ठा, एषा दूर"स्थिताऽधुना । भवन्तौ मत्समीपाच्च, निर्गच्छन्तौ प्रतीक्षते ॥२०॥” विचक्षणाकालज्ञाभ्यामभिहितं-भगवन् ! कदा पुनरस्याः सकाशा- दावयोर्मोक्षः ?, भगवानाह-भद्रौ! नेह भवे, अद्यापि भवद्भ्यामियं सर्वथा त्यक्तुं न शक्या, केवलमस्य निर्दलने महामुद्गरायमाणं प्रादुर्भूतं भवतोः सम्यग्दर्शनं, तदुद्दीपनीयं पुनः पुनः सुगुरुसंनिकैर्षेण, नाचरणीयमस्या भोगतृष्णाया अनुकूल, लक्षयितव्यो मनसि बिकर्तमानोऽस्या सम्बन्धी विकारः, निराकरणीयोऽसौ प्रतिपक्षभावनया, यतः प्रतिक्षणं तनुतां गच्छन्ती न भविष्यतीयं शरीरेऽपि वर्तमाना| भवतोर्वाधिका, भवान्तरे पुनरस्याः सर्वथा त्यागसमयौँ भविष्यतो भवन्ताविति । तदाकर्ण्य ततो महाप्रसाद इति वदन्तौ विचक्षणाकालज्ञौ पतितौ भगवञ्चरणयोः, ततोऽमुं व्यतिकरमालोक्य श्रुत्वा च भगवद्वचनं ऋजुप्रगुणामुग्धाकुटिलानामपि प्रादुर्भूतः पश्चात्तापेन सह विशुद्धाध्यवसायः, ऋजुप्रगुणाभ्यां चिन्तितम्-अहो अलीकसुतवधूद्विगुणितव्यामोहेन निरर्थकं विडम्बितं, विहिता सुतवध्वोरुन्मार्गप्रवृ|तिरावाभ्यामिति, मुग्धेन चिन्तितं-अहो कृतं मया परस्त्रीगमनेन कुलस्य दूषणं, अकुटिलया चिन्तितं-बत संजातं मे शीलखण्डनमिति, ततश्चतुर्णामपि स्थितमेतच्चित्ते-यदुत निवेदयाम एवंस्थितमेवेदं भगवतां, एत एवास्य दुश्चरितस्य प्रतिविधानमुपदेक्ष्यन्ति, अत्रान्तरे चतुर्णामपि शरीरेभ्यो निर्गतैः परमाणुभिर्घटितशरीरं शुक्ल वर्णेन परिगतं तेजसाऽऽहादकं लोचनानां प्रीणकं चेतसामुपलभ्यमानं मया रक्षितानि मया रक्षितानि यूयमिति ब्रुवाणमेकं डिम्भरूपं सहर्ष भगवन्मुखमीक्षमाणं स्थितं सर्वेषां पुरतः, तावसदनुमार्गेणैव कृष्णं वर्णेन बीभत्समाकारेण उद्वेगहेतुः प्राणिनां तथैव निर्गतं द्वितीयं डिम्भरूपं, तस्माच्च तदाकाररूपधरमेव क्लिष्टतरं प्रकृत्या संजातमन्यदपि
१ पा० संर्पकेण.
॥१७५॥
Jain Education insan
For Private & Personel Use Only
C
ainelibrary.org