SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥१७४॥ भगवन् ! किन्नामिकेयं ?, भगवताऽभिहितं-भद्रौ! भोगतृष्णेयमभिधीयते, विचक्षणाकालज्ञाभ्यामभिहितं-भगवन् ! कथं पुनरियमेवं-15 भोगतृविधदोषहेतुः, भगवताऽभिहितं-भद्रौ! श्रूयताम्-"रजनीव तमिस्रस्य, भोगतृष्णैव सर्वदा । रागादिदोषवृन्दस्य, सर्वस्यैषा प्रवर्तिका ष्णास्वरूपं | "|| १॥ येषामेषा भवेद्देहे, प्राणिनां पापचेष्टिता । तेषामकार्येषु मतिः, प्रसभं संप्रवर्त्तते ॥ २ ॥ तृणकाष्ठैर्यथा वह्निर्जलपूरैर्यथोदधिः । | "तथा न तृप्यत्येषाऽपि, भोगैरासेवितैरपि ॥ ३ ॥ यो मूढः शमयत्येना, किल शब्दादिभोगतः । जले निशीथिनीनाथं, स हस्तेन जिघृ "क्षति ॥ ४ ॥ मोहादेनां प्रियां कृत्वा, भोगतृष्णां नराधमाः । संसारसागरे घोरे, पर्यटन्ति निरन्तके ।। ५ ।। सदोषेयमिति ज्ञात्वा, ये | "पुनः पुरुषोत्तमाः। स्वदेहगेहान्निःसार्य, चित्तद्वारं निरुन्धते ॥६॥ ते सर्वोपद्रवैर्मुक्ताः, प्रलीनाशेषकल्मषाः । आत्मानं निर्मलीकृत्य, | "प्रयान्ति परमं पदम् ॥ ७॥ युग्मम् । येऽनया रहिताः सन्तत्ते वन्द्या भुवनत्रये । वशे गताः पुनर्येऽस्याः, साधुभिस्ते विगर्हिताः॥८॥ | "अनुकूला भवन्त्यस्या, ये मोहाधमा नराः । तेषामेषा प्रकृटौव, दुःखसागरदायिका ॥९॥ प्रतिकूला भवन्त्यस्या, ये पुनः पुरुषोत्तमाः। "तेषामेषा प्रकृत्यैव, सुखसन्दोहकारिका ॥ १०॥ तावन्मोक्षं नरो द्वेष्टि, संसारं बहु मन्यते । पापिष्ठा भोगतृष्णेयं, यावच्चिचे विवर्त्तते | "I॥ ११ ॥ यदा पुनर्विलीयेत, कथञ्चित्पुण्यकर्मणाम् । एषा भवस्तदा सर्वो, धूलिरूपः प्रकाशते ॥ १२ ॥ तावच्चाशुचिपुजेषु, योषिदङ्गेषु "मूढधीः । कुन्देन्दीवरचन्द्रादिकल्पनां प्रतिपद्यते ॥ १३ ॥ यावदेषा शरीरस्था, वर्त्तते भोगतृष्णिका । तदभावे मनस्तेषु, न स्वप्नेऽपि प्र“वर्त्तते ॥ १४ ॥ युग्मम् । समाने पुरुषत्वेऽपि, परकिङ्करतां गताः । निन्द्यं यत्कर्म कुर्वन्ति, भोगतृष्णाऽत्र कारणम् ॥ १५॥ येषां पुन-15 "रियं देहान्निर्गता सुमहात्मनाम् । निर्द्धना अपि ते धीराः, शक्रादेरपि नायकाः ॥ १६ ॥ किञ्चित्तामससंमिश्रे, राजसैः परमाणुभिः । ॥१७४। “निर्वर्तितशरीरेयं, गीता तत्रान्तरेष्वपि ॥ १७ ॥ तदेषा भवतोः पापा, पापकर्मप्रवर्तिका । अतोऽस्या एव दोषोऽयं, विद्यते नैव भद्रयोः Jain Educat i onal For Private & Personel Use Only Govww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy