SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ १७३ ॥ Jain Educatio द्वयकथा समागतः प्रतिबोधको नामाचार्यः, निवेदितो नरेन्द्रायोद्यानपालेन, ततः सपौरजनो निर्गतस्तद्वन्दनार्थ राजा, भगवतोऽपि देवैर्विरचितं कालविलकनककमलं, दृष्टस्तत्रोपविष्टस्तेभ्यो धर्ममाचक्षाणो भगवान्नरपतिना इलातलविलुलितमौलिना, वन्दितं तत्पादारविन्दं शेषमुनयश्च, अभि- ४ म्बे मिथुन नन्दिताः कर्मविटपिपाटनपटिष्टनिष्ठुरकुठारायमाणेन धर्मलाभाशीर्वादेन भगवता शेषयतिभिश्र, उपविष्टा भूतले, कालज्ञादयोऽपि प्रयुज्य समस्तं वन्दनादिविनयं यथास्थानमुपविष्टाः, प्रस्तुता भगवता विशेषतो धर्मदेशना दर्शिता भवनिर्गुणता वर्णिताः कर्मबन्धहेतवः नि न्दितः संसारचारकावासः श्लाघितो मोक्षमार्गः ख्यापितः शिवसुखातिशयः कथिता विषयाभिष्वङ्गस्य भवभ्रमणहेतुशिवसुखप्रतिरोधिका दुरन्तता, ततस्तद्भगवद्वचनामृतमाकर्ण्य विचक्षणाकालज्ञयोर्विदलितं मोहजालमाविर्भूतः सम्यग्दर्शनपरिणामः समुज्वलितः कर्मेन्धनदहनप्रवणः स्वदुश्चरितपश्चात्तापानल:, अत्रान्तरे तयोः शरीराभ्यां विनिर्गतै रक्तकृष्णैः परमाणुभिर्घटितशरीरा बीभत्सा दर्शनेन भीषणा स्वरूपेण उद्वेगहेतुर्विवेकिनां एका स्त्री भगवतः प्रतापं सोढुमक्षमा निर्गत्य पर्षदः पञ्चान्मुखीस्थिता दूरवर्त्तिनि भूभागे स्थिता, पश्चात्तापार्द्रीकृतहृदयतया गलदश्रुसलिलौ समकमेव विचक्षणाकालज्ञौ पतितौ भगवञ्चरणयोः, कालज्ञेनाभिहितं—भगवन्नधमाधमोऽहं येन मया विप्रतारिता स्वभार्या आचरितं पारदार्य दुग्धः सरलहृदयो मुग्धो जनितो नरेन्द्रमहादेव्यादीनां व्यलीकसुतव्यामोहः वञ्चितोऽयं परमार्थेनात्मा, तस्य ममैवंविधपापकर्मणः कथं शुद्धिर्भविष्यतीति ?, विचक्षणयोक्तं ममापि कथं ?, यतः समाचरितं पापिष्ठया मयाऽपीदं सर्व किं वा निवेद्यते ?, दिव्यज्ञानस्य प्रत्यक्षमेवेदं समस्तं भगवतः, भगवानाह — भद्रौ ! न कर्त्तव्यो युवाभ्यां विषादो, न भद्रयोर्दोषोऽयं, निर्मलं भवतोः स्वरूपं, तावाहतुः कस्य पुनर्दोषोऽयं ?, भगवानाह — येयं युष्मच्छरीरान्निर्गत्य दूरे स्थिता नारी तस्याः, तावाहतुः१ वचितौ सरलहृदयौ अकुटिलामुग्धौ प्र० ional For Private & Personal Use Only ॥ १७३ ॥ www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy