SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ उपमितौनसुतद्वयं, वध्वा जातमथो वधूद्वयम् । खादत पिबताथ सजना, गायत वादयताथ नृत्यत ॥ १॥ ततः प्रगुणापि महादेवी एतदेव नरे- कालवि तृ. ३-प्र. न्द्रोक्तमनुवदन्ती वादितानन्दमईलसन्दोहबधिरितदिगन्ता विहितोलभुजा नर्तितुं प्रवृत्ता, द्विगुणाहं संपन्नेति गता हर्षमकुटिला, प्रनृत्ताः ४म्बे मिथुन & शेषान्तःपुरिकाः, प्रमुदितं नगरं, वृत्तो वृहता विमर्दैन महानन्द इति, केलिप्रियतया हृष्टः कालज्ञः, केवलं चिन्तितमनेन का पुनरेषा द्वयकथा ॥१७२॥ | द्वितीया योषित् संजातेति, उपयुक्तो ज्ञाने, ज्ञातमनेन—सैवैषा मदीयभार्या विचक्षणेति, ततः संजातः क्रोधः, चिन्तितमनेन, मारयाम्येनं दुराचारं पुरुषम् , एषा पुनरमरतया न शक्यते मारयितुं, तथाप्येवं पीडयामि यथा न पुनः परपुरुषगन्धमपि प्रार्थयते, एवं कृतनिश्चयस्याप्यस्य कालज्ञस्य तथाभवितव्यतया प्रवृत्ताऽर्थपर्यालोचना, स्फुरितं चित्ते-यथा न सम्यग् चिन्तितमिदं मया, न पीडनीया तावद्विचक्षणा, यतोऽहमपि न शुद्धाचाये, ममापि समानोऽयं दोषः, मारणमपि मुग्धस्य न युक्तं, यतो मारितेऽस्मिन्नन्यथाभावं विज्ञाय न भजते मामकुटिला, विरज्यते सुतरां विचक्षणा, तत्किमकुटिलां गृहीत्वाऽदृष्टस्वकलत्रधर्षणः इतोऽपक्रमामि ?, एतदपि नास्ति, यतोऽकाण्डप्रस्थाने न स्वाभाविकोऽयमिति लक्षितविकारा कदाचिदकुटिला मां न भजते, तया रहितस्य पुनर्गमनमनर्थकमेव, तस्मादीाधर्म परित्यज्य कालविलम्ब एवात्र श्रेयानिति, विचक्षणयापि चिन्तितम्-अये! स एवायं मदीयम" कालज्ञोऽनेन रूपेण स्थितः, कुतोऽन्यस्यात्र संभव इति, ततः कथमस्य पुरतः परपुरुषेण सह तिष्ठामीति संजातलज्जा अयमन्यां भजत इति समुत्पन्ना दुःशकमेवं स्थिते स्थातु मित्याविभूताकुलभावा गताया अपि न काचिदर्थसिद्धिरिति स्थानेनात्मानं तोषयन्ती न चान्या गतिरस्तीति निरालम्बा, सापि यद्भविसंध्यत्तया कालविलम्बमेवाश्रित्य तत्रैव स्थिता, तत्प्रभृत्यदर्शितवैक्रियौ परित्यक्तेाधौं देवमायया समस्तमानुषकर्त्तव्यान्याचरन्तौ प्रत्येक M ॥१७२॥ द्वयं भजमानौ स्थितौ विचक्षणाकालज्ञौ प्रभूतकालम् । अन्यदा मोहविलयाभिधाने कानने सातिशयज्ञानादिरत्नाकरो बहुशिष्यपरिकरः Jain Education in For Private & Personel Use Only Hainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy