SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ उपमितौनसुतद्वयं, वध्वा जातमथो वधूद्वयम् । खादत पिबताथ सजना, गायत वादयताथ नृत्यत ॥ १॥ ततः प्रगुणापि महादेवी एतदेव नरे- कालवि तृ. ३-प्र. न्द्रोक्तमनुवदन्ती वादितानन्दमईलसन्दोहबधिरितदिगन्ता विहितोलभुजा नर्तितुं प्रवृत्ता, द्विगुणाहं संपन्नेति गता हर्षमकुटिला, प्रनृत्ताः ४म्बे मिथुन & शेषान्तःपुरिकाः, प्रमुदितं नगरं, वृत्तो वृहता विमर्दैन महानन्द इति, केलिप्रियतया हृष्टः कालज्ञः, केवलं चिन्तितमनेन का पुनरेषा द्वयकथा ॥१७२॥ | द्वितीया योषित् संजातेति, उपयुक्तो ज्ञाने, ज्ञातमनेन—सैवैषा मदीयभार्या विचक्षणेति, ततः संजातः क्रोधः, चिन्तितमनेन, मारयाम्येनं दुराचारं पुरुषम् , एषा पुनरमरतया न शक्यते मारयितुं, तथाप्येवं पीडयामि यथा न पुनः परपुरुषगन्धमपि प्रार्थयते, एवं कृतनिश्चयस्याप्यस्य कालज्ञस्य तथाभवितव्यतया प्रवृत्ताऽर्थपर्यालोचना, स्फुरितं चित्ते-यथा न सम्यग् चिन्तितमिदं मया, न पीडनीया तावद्विचक्षणा, यतोऽहमपि न शुद्धाचाये, ममापि समानोऽयं दोषः, मारणमपि मुग्धस्य न युक्तं, यतो मारितेऽस्मिन्नन्यथाभावं विज्ञाय न भजते मामकुटिला, विरज्यते सुतरां विचक्षणा, तत्किमकुटिलां गृहीत्वाऽदृष्टस्वकलत्रधर्षणः इतोऽपक्रमामि ?, एतदपि नास्ति, यतोऽकाण्डप्रस्थाने न स्वाभाविकोऽयमिति लक्षितविकारा कदाचिदकुटिला मां न भजते, तया रहितस्य पुनर्गमनमनर्थकमेव, तस्मादीाधर्म परित्यज्य कालविलम्ब एवात्र श्रेयानिति, विचक्षणयापि चिन्तितम्-अये! स एवायं मदीयम" कालज्ञोऽनेन रूपेण स्थितः, कुतोऽन्यस्यात्र संभव इति, ततः कथमस्य पुरतः परपुरुषेण सह तिष्ठामीति संजातलज्जा अयमन्यां भजत इति समुत्पन्ना दुःशकमेवं स्थिते स्थातु मित्याविभूताकुलभावा गताया अपि न काचिदर्थसिद्धिरिति स्थानेनात्मानं तोषयन्ती न चान्या गतिरस्तीति निरालम्बा, सापि यद्भविसंध्यत्तया कालविलम्बमेवाश्रित्य तत्रैव स्थिता, तत्प्रभृत्यदर्शितवैक्रियौ परित्यक्तेाधौं देवमायया समस्तमानुषकर्त्तव्यान्याचरन्तौ प्रत्येक M ॥१७२॥ द्वयं भजमानौ स्थितौ विचक्षणाकालज्ञौ प्रभूतकालम् । अन्यदा मोहविलयाभिधाने कानने सातिशयज्ञानादिरत्नाकरो बहुशिष्यपरिकरः Jain Education in For Private & Personel Use Only Hainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy