________________
उपमितौ तृ. ३-प्र. ॥१७१॥
ततोऽयमेवात्रोपाय इति विचिन्त्य कृतमनेन देवशक्क्याऽऽत्मनो वैक्रियं मुग्धरूपं, निर्वर्तिता कनकसूर्पिका भृता कुसुमानां गतोऽकुटिलास-15 कालविलमीपं, ससंभ्रममाह च-जिताऽसि प्रिये ! जिताऽसि, ततः कथमार्यपुत्रो झटित्येवायातो जिताऽहमपि, (पीति) विलक्षीभूता मनागकुटिला, म्बे मिथुन कालज्ञेनाभिहितं—प्रियेऽलं विषादेन, स्वल्पमिदं कारणं, केवलं निर्वतितोऽधुना कुसुमोच्चयो, बजावोऽमुष्मिन्नुपवनविभूषणे कदलीलता-10 द्वियकथा गृहे, प्रतिपन्नमनया, ततो गत्वा कृतमाभ्यां तत्र पल्लवशयनीयं, इतश्च विचक्षणया चिन्तितं-अये! गतस्तावदेष कालज्ञः, ततो यावयं नागच्छति यावच्चेयं नारी दूरे वर्त्तते तावदवतीर्य मानयाम्येनं रतिवियुक्तमकरकेतनाकारं तरुणं, करोम्यात्मनो जन्मनः साफल्यं, लक्षितश्चानयापि विभङ्गज्ञानेनैव तयोर्दूरीभवनहेतुः, ततो विधायाकुटिलारूपं कुसुमभृतकनकसूर्पिका गता मुग्धसमीपम् , आह च-जितोऽस्यार्यपुत्र ! जितोऽसि, ततः ससंभ्रमं तां निरीक्ष्य मुग्धः प्राह-प्रिये! सुष्टु जितः, किमधुना क्रियता ?, विचक्षणयोक्तं-यदहं वदामि, मुग्धः प्राह-किं तत् ?, विचक्षणाऽऽह-बजामो लताभवनं, मानयामो विशेषतः सदुपवनश्रियं, प्रतिपन्नमनेन, ततो गत्वा तौ विचक्षणामुग्धौ तत्रैव कदलीलतागृहके, दृष्टं तन्मिथुनं, निरीक्षितं विस्मिताभ्यां परस्पराभिमुखं मिथुनाभ्यां, न दृष्टस्तिलतुषत्रिभागमात्रोऽपि स्खेतरयोर्विशेषः, मुग्धेन चिन्तितम्-अये! भगवतीनां वनदेवतानां प्रसादेन द्विगुणोऽहं संपन्नो देवी च, तदिदं महदभ्युदयकारणं, तं निवेदयामीदं ताताय, ततो निवेद्य स्वाभिप्रायमितरेषां गच्छामस्तावत्तातसमीपम् इत्यभिधायोत्थितो मुग्धः, चलितं चतुष्टयमपि, प्रविष्टं ऋजुराजाऽऽस्थाने, तद्विलोक्य विस्मितो राजा महादेवी परिकरश्च, किमेतदिति पृष्टो मुग्धः, स प्राह-वनदेवताप्रसादः, ऋजुराहकथं ?, ततः कथितो मुग्धेन व्यतिकरः, ऋजुना चिन्तितम्-अहो मे धन्यता अहो मे देवतानुग्रहः, ततो हर्षातिरेकेण समादिष्टस्तेना
॥१७१॥ कालमहोत्सवो नगरे दापितानि महादानानि विधापितानि नगरदेवतापूजनानि, स्वयं च राजा राजमण्डलमध्यस्थः प्राह-एकेन सुतेन
Jain Education inte
For Private & Personal Use Only
Mamlilainelibrary.org