SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥१७१॥ ततोऽयमेवात्रोपाय इति विचिन्त्य कृतमनेन देवशक्क्याऽऽत्मनो वैक्रियं मुग्धरूपं, निर्वर्तिता कनकसूर्पिका भृता कुसुमानां गतोऽकुटिलास-15 कालविलमीपं, ससंभ्रममाह च-जिताऽसि प्रिये ! जिताऽसि, ततः कथमार्यपुत्रो झटित्येवायातो जिताऽहमपि, (पीति) विलक्षीभूता मनागकुटिला, म्बे मिथुन कालज्ञेनाभिहितं—प्रियेऽलं विषादेन, स्वल्पमिदं कारणं, केवलं निर्वतितोऽधुना कुसुमोच्चयो, बजावोऽमुष्मिन्नुपवनविभूषणे कदलीलता-10 द्वियकथा गृहे, प्रतिपन्नमनया, ततो गत्वा कृतमाभ्यां तत्र पल्लवशयनीयं, इतश्च विचक्षणया चिन्तितं-अये! गतस्तावदेष कालज्ञः, ततो यावयं नागच्छति यावच्चेयं नारी दूरे वर्त्तते तावदवतीर्य मानयाम्येनं रतिवियुक्तमकरकेतनाकारं तरुणं, करोम्यात्मनो जन्मनः साफल्यं, लक्षितश्चानयापि विभङ्गज्ञानेनैव तयोर्दूरीभवनहेतुः, ततो विधायाकुटिलारूपं कुसुमभृतकनकसूर्पिका गता मुग्धसमीपम् , आह च-जितोऽस्यार्यपुत्र ! जितोऽसि, ततः ससंभ्रमं तां निरीक्ष्य मुग्धः प्राह-प्रिये! सुष्टु जितः, किमधुना क्रियता ?, विचक्षणयोक्तं-यदहं वदामि, मुग्धः प्राह-किं तत् ?, विचक्षणाऽऽह-बजामो लताभवनं, मानयामो विशेषतः सदुपवनश्रियं, प्रतिपन्नमनेन, ततो गत्वा तौ विचक्षणामुग्धौ तत्रैव कदलीलतागृहके, दृष्टं तन्मिथुनं, निरीक्षितं विस्मिताभ्यां परस्पराभिमुखं मिथुनाभ्यां, न दृष्टस्तिलतुषत्रिभागमात्रोऽपि स्खेतरयोर्विशेषः, मुग्धेन चिन्तितम्-अये! भगवतीनां वनदेवतानां प्रसादेन द्विगुणोऽहं संपन्नो देवी च, तदिदं महदभ्युदयकारणं, तं निवेदयामीदं ताताय, ततो निवेद्य स्वाभिप्रायमितरेषां गच्छामस्तावत्तातसमीपम् इत्यभिधायोत्थितो मुग्धः, चलितं चतुष्टयमपि, प्रविष्टं ऋजुराजाऽऽस्थाने, तद्विलोक्य विस्मितो राजा महादेवी परिकरश्च, किमेतदिति पृष्टो मुग्धः, स प्राह-वनदेवताप्रसादः, ऋजुराहकथं ?, ततः कथितो मुग्धेन व्यतिकरः, ऋजुना चिन्तितम्-अहो मे धन्यता अहो मे देवतानुग्रहः, ततो हर्षातिरेकेण समादिष्टस्तेना ॥१७१॥ कालमहोत्सवो नगरे दापितानि महादानानि विधापितानि नगरदेवतापूजनानि, स्वयं च राजा राजमण्डलमध्यस्थः प्राह-एकेन सुतेन Jain Education inte For Private & Personal Use Only Mamlilainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy