SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उपमिती मध्यमबुद्धिरुवाच–अम्ब ! किं तन्मिथुनद्वयं ?, सामान्यरूपयोक्तं पुत्राकर्णय-अस्ति तथाविधं नाम नगरं, तत्र ऋजुन म राजा, तस्य कालविलतृ. ३-अ. प्रगुणा नाम महादेवी, तयोर्मकरध्वजाकारो मुग्धो नाम तनयः, तस्य च रतिसन्निभा अकुटिला नाम भार्या, ततस्तयोर्मुग्धाकुटिलयोर-15म्बे मिथुन न्योऽन्यबद्धानुरागयोर्विषयसुखमनुभवतोर्बजति कालः, अन्यदा वसन्तसमये उपरितनप्रासादभूमिकावासभवने व्यवस्थितः प्रभाते उत्थितोद्वयकथा ॥ १७०॥ मुग्धकुमारो, मनोहरविविधविकसितकुसुमवनराजिराजितं गृहोपवनमुपलभ्य संजातक्रीडाभिलाषो भार्या प्रत्युवाच देवि! अतिरमणीयेयमु-15 पवनश्रीः, तदुत्तिष्ठ गच्छावः कुसुमोच्चयनिमित्तं, आनयाव एनां, अकुटिलयाऽभिहितं यदाज्ञापयत्यार्यपुत्रः, ततो गृहीत्वा मणिखचिके | कनकसूर्पिक गते गृहोपवनं, प्रारब्धः कुसुमोच्चयो, मुग्धः प्राह-देवि! पश्यावस्तावत् कः कनकसूर्पिकां झटिति पूरयति ?, ब्रज त्वमन्यस्यां दिशि अहमन्यस्यां व्रजामीति, अकुटिलयाऽभिहितं—एवं भवतु, गतौ कुसुमोच्चयं कुर्वाणौ परस्परं दर्शनपथातीतयोर्गहनान्तरयोः, अत्रा-1 सन्तरे कथञ्चित्तं प्रदेशमायातं व्यन्तरदेवमिथुनकं, कालज्ञो देवो विचक्षणा देवी, तेन च गगनतले विचरताऽवलोकितं तन्मानुषमिथुन, ततोऽचिन्त्यतया कर्मपरिणतेरतिसुन्दरतया तस्य मानुषमिथुनस्यापर्यालोचितकारितया मन्मथस्य मदनजननतया मधुमासस्यातिरमणीय|तया प्रदेशस्य केलिबहलतया व्यन्तरभावस्यातिचपलतयेन्द्रियाणां दुर्निवारतया विषयाभिलाषस्यातिचटुलचारितया मनोवृत्तेस्तथाभवितव्य-13 तया च तस्य वस्तुनः कालज्ञस्याभूदकुटिलायां तीव्रोऽनुरागः तथैव च मुग्धस्योपरि विचक्षणायाः, ततः किलैनां वञ्चयामीतिबुद्ध्या कालज्ञेनाभिहिता विचक्षणा-देवि! ब्रज त्वमग्रतः तावद्यावदहमितो राजगृहोपवनाद्देवार्चननिमित्तं कतिचित्कुसुमान्यादायागच्छामि, सा तु मुग्धहृदयतया स्थिता मौनेन, गतोऽकुटिलाभिमुखं कालज्ञोऽवतीर्णो घनतरगहने अदर्शनीभूतो विचक्षणायाः, चिन्तितमनेनअये! किं पुनः कारणमाश्रित्येदं मिथुनं परस्परतो दवीयोदेशवर्त्ति वर्त्तते, ततः प्रयुक्तमनेन विभङ्गज्ञानं, लक्षितं तयोर्दूरीभवनकारणं, SISUSTUSSSSSS Jain Education D eal For Private & Personel Use Only law.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy