________________
मध्यमबु
द्धिवृत्त
उपमितीनेन, आलिङ्गितस्ताभ्यां स्पर्शनेन च, ततः सकौतुकेन मध्यमबुद्धिना कर्णाभ्यर्णे निधाय वदनं पृष्टो वाल:-क एष इति ?, निवेदितो तृ. ३-प्र. बालेनास्य यथा-स्पर्शननामायमचिन्त्यप्रभावोऽस्मत्सहचर इति, मध्यमबुद्धिरुवाच कथं?, ततः कथितो बालेन सर्वोऽपि व्यतिकरः,
संजातो मध्यमबुद्धरपि स्पर्शनस्योपरि स्नेहभावः, बालेनाभिहितं-भद्र स्पर्शन! दर्शयास्य स्वकीयं माहात्म्यं, स्पर्शनः प्राह-एष दर्श॥१६९॥
यामि, ततः प्रयुक्ता योगशक्तिः कृतमन्तर्धानं अधिष्ठितं मध्यमबुद्धेः शरीरं विस्मितो मध्यमबुद्धिः प्रवृत्ता कोमलस्पर्शेच्छा उपभुक्तानि ललितशयनसुरतादीनि संजातश्चित्ताहादः प्रीणितो मध्यमबुद्धिः, प्रकटीभूतः स्पर्शनः, पृष्टं स्वप्रयाससाफल्यम् , अनुगृहीतोऽहं भवतेति निवेदितं सरभसेन मध्यमबुद्धिना, ततः पात्रीभूतोऽयमपि न दूरयायी वर्त्तत इति विचिन्तितं स्पर्शनेन, मनीषिणा चिन्तितं-वशीकृतप्रायोऽयमपि मध्यमबुद्धिरनेन पापेन स्पर्शनेन, अतो यापेदर्श गृह्णाति ततः शिक्षयाम्येनं, मा भूदस्य मुग्धतया वराकस्य वञ्चनमिति, ततो रहसि मध्यमबुद्धिरभिहितो मनीषिणा-भद्र ! न भद्रकोऽयं स्पर्शनो, विषयाभिलाषप्रयुक्तोऽयं लोकानां वञ्चकः पर्यटति, मध्यमबुद्धिरुवाच-कथं ?, ततः कथिता मनीषिणा बोधप्रभावोपलब्धा समस्ताऽपि तस्य स्पर्शनस्य मूलशुद्धिः, मध्यमबुद्धिना चिन्तितंस्वानुभवसिद्धा मम तावदस्य स्पर्शनस्य संबन्धिनी वत्सलता अचिन्त्यप्रभावता सुखहेतुता च, अयमपि च मनीषी नायुक्तभाषी, तन्न जानीमः किमत्र तत्त्वं ? किं वा वयमेवंस्थिते कुर्म इति ?, अथवा किमनेन चिन्तितेन? तावदम्बां पृच्छामि, तदुपदिष्टमाचरिष्यामीति विचिन्त्य गतः सामान्यरूपायाः समीपं, कृतं पादपतनं अभिनन्दितस्तया निविष्टः क्षितितले निवेदितो व्यतिकरः सामान्यरूपयोक्तं वत्स!
तावत्त्वयाऽधुना स्पर्शनमनीषिणोद्वयोरपि वचनमनुवर्त्तयतोभयाविरोधेन मध्यस्थतयैव स्थातुं युक्तं, कालान्तरे पुनर्य एव बलवत्तरः पक्षः उ. म. १५ स्यात् स एवाश्रयणीयः, तथाहि-संशयापन्नचित्तेन, भिन्ने कार्यद्वये सता । कार्यः कालविलम्बोऽत्र, दृष्टान्तो मिथुनद्वयम् ॥१॥
का॥१६९॥
Jan Education
For Private sPersonal use Only