________________
उपमितौ तु. ३-प्र.
॥१६७॥
हमान
तार्थोऽहमिदानीं भवदुपकारसंपत्त्येति, ततो मनीषिसमीपमुपगम्याभिहितमनेन-सखे! किं सार्थकः भवतोऽर्थसंपादनेन मदीयः प्रयास उत नेति ?, मनीषिणोक्तं-भद्र ! किमत्रोच्यते, अनाख्येयस्तावकोऽतिशयः, स्पर्शनेन चिन्तितं-अये! साभिप्रायकमेतद्, दुष्टः खल्वेष मनीषी न शक्यते मादृशै रजयितुं लक्षितोऽहमनेन स्वरूपतः प्रायेण, तस्मात्सलज्ज एव तावदास्तां नात्र बहुविकत्थनं श्रेयस्करं इति विचिन्त्य धूर्ततया कृता स्पर्शनेन काकली, न दर्शितो मुखविकारोऽपि स्थितो मौनेनेति, इतश्च बालेनापि स्वमातुरकुशलमालायाः कथितः । समस्तोऽपि रभसेन यो योगदीपनशक्तिपुरःसरं सुखसंपादनसामर्थ्यलक्षणः स्पर्शनव्यतिकरः, अकुशलमालोवाच-जात! सूचितमिदमादावेव हर्षोऽकुशमया यथा सुन्दरस्तवानेन वरमित्रेण सार्द्ध संबन्धः हेतुः सुखपरम्परायाः, किं चास्ति ममापीदृशी योगशक्तिरिति दर्शयिष्याम्यहमपि हलमालायाः जातस्य कुतूहलं, बालस्तूवाच-यद्येवं ततो बहुतरमम्बायाः प्रसादेनास्माभिरद्यापि द्रष्टव्यम् , अकुशलमालोवाच-तत्कथनीयं भवता | यदा प्रयुज्यते योगशक्तिरिति, इतश्च मनीषिणाऽपि स्वमातुः शुभसुन्दर्या निवेदितः सर्वोऽपि स्पर्शनवृत्तान्तः, तयाऽभिहितं-वत्स! न शुभसुन्दचारुस्तवानेन पापमित्रेण सह संसर्गः, कारणमेष दुःखपद्धत्तेः, मनीषिणाऽभिहितं-सत्यमेतत् , केवलं न कर्त्तव्यमत्र भयमम्बया, ल- रीविचारः क्षितो मयाऽयं स्वरूपेण, नाहमस्य यत्नवतोऽपि वञ्चनागोचरः, केवलमस्य परित्यागकालं प्रतिपालयामि, यतः प्रतिपन्नोऽयं मया मित्रतया नाकाण्ड एव हातुं युक्तः, शुभसुन्दर्युवाच-जात! सुन्दरमिदमनुष्ठितं भवता, अहो ते लोकज्ञता अहो ते प्रतिपन्नवात्सल्यं अहो ते नीतिपरता अहो गम्भीरता अहो ते स्थैर्यातिरेकः, तथाहि नाकाण्ड एव मुञ्चन्ति, सदोषमपि सज्जनाः । प्रतिपन्नं गृहस्थायी, तत्रोदाहरणं जिनः ।। १ ॥ प्रतिपन्नमकाले तु, सदोषमपि यस्त्यजेत् । स निन्द्यः स्यात्सतां मध्ये, न चासौ स्वार्थसाधकः ॥२॥ यस्तु
॥१६७॥ १ सूक्ष्मः शब्द. २°क्तिदीपनपु०प्र० ३ °व्यतिकरः प्र.
SASA
Jain Education
a
l
For Private
Personel Use Only
Manelibrary.org