________________
उपमितौ
वालस्य स्प
॥१६५॥
र्शनाधी
नता
स्योपरि न कार्यो मया यावदस्य सर्वथा परित्यागावसरो भवति, एवं वर्त्तमानस्य मे न भविष्यत्येष बाधक इति स्थापितो मनीषिणा स्वचेतसि सिद्धान्तः, ततः पूर्वस्थित्यैव विलसन्ति ते स्पर्शनमनीषिबाला नानास्थानेषु, ब्रजन्ति दिनानि, अन्यदा स्पर्शनेन कृतो जल्पप्रस्तावो|ऽभिहितं च तेन-अरे! किमत्र लोके सारं ? किं वा सर्वे जन्तवोऽभिलषन्ति ?, बालेनाभिहितं-वयस्य! किमत्र ज्ञातव्यं ?, सुप्रसिद्धमिदं, स्पर्शनः प्राह-कथय किं तत् ?, बालो जगाद-वयस्य ! सुखं, स्पर्शनः प्राह-तत् किमिति तदेव सदा न सेव्यते, बालेनाभिहितं-कस्तस्य सेवनोपायः ?, स्पर्शनेनोक्तं-अहम् , बालो जगाद-कथं ?, स्पर्शनः प्राह-अस्ति मे योगशक्तिः, तयाऽहं प्राणिनां
शरीरमनुप्रविश्य बहिरन्तश्च कचिल्लीनस्तिष्ठामि, ततश्च ते यदि भक्तिपुरःसरं मामेव ध्यायन्ति कोमलललितस्पर्शनसंबन्धं कुर्वन्ति ततो | निरुपमं सुखं लभन्ते, तेनाहं सुखसेवनस्योपायो, मनीषिणा चिन्तितं-अये! रचितोऽनेनावयोर्वञ्चनप्रपञ्चो, बालेनाभिहितं—वयस्य ! | तत्किमियन्तं कालं नावेदितमिदमस्माकं ?, अहो वञ्चिता वयमधन्याः सत्यप्येवंविधे सुखोपाये तदनासेवनेन, अहो ते गम्भीरता यदेवंविधामपि योगशक्तिमात्मनो न प्रकटयसि, तदिदानीमपि कुरु प्रसाद, दर्शय कुतूहलं व्यापारय योगशक्तिं भवावयोः सुखसेवनहेतुरिति, ततः किं क्रियतामेतदिति दृष्टिविकारेणैव दर्शयता साकूतेन निरीक्षितं मनीषिणो वदनं स्पर्शनेन, ततः पश्यामि किं तावत् करोतीति संचिन्त्य मनीषिणाऽभिहितं-वयस्य ! क्रियतां बालभाषितं, कोऽत्र विरोधः?, ततः स्पर्शनेन विरचितं पद्मासनं स्थिरीकृतः कायः परित्यक्तो बहिर्विक्षेपः निश्चलीकृता दृष्टिः समर्पिता नासिकाने निबद्धं हृत्पौण्डरीके मानसं धृता धारणा संजाता तत्प्रत्ययैकतानता समापूरितं ध्यानं निरुद्धाः करणवृत्तयः आविर्भूतः स्वरूपशून्य इवार्थनिर्भासः संजातः समाधिः विहितोऽन्तर्धानहेतुः संयमः कृतमन्तर्द्धानं, अनुप्रविष्टो मनीषिबालयोः शरीरं, अधिष्ठितः स्वाभिहितप्रदेशः विस्मिती मनीषिबाली प्रवृत्चा द्वयोरपि कोमलस्पर्शेच्छा,
स्पर्शनयो
&॥१६५॥
2-25
JainEducation
For Private
Personel Use Only
Dainelibrary.org