________________
उपमितौ तृ. ३- प्र.
॥ १६४ ॥
Jain Education In
64
उत तत्र कश्चिदन्योऽप्यासीदिति ?, स्पर्शनेनाभिहितं—आर्य ! आसीत्, केवलमलं तत्कथया, न खल्वहं भयविह्वलतया तस्य क्रूरकर्मणो नामाप्युच्चारयितुं शक्नोमि, स हि सदागमस्तस्य केवलं भवजन्तोरुपदेशं ददाति मत्कदर्थनविषयं स तु तस्यैवानुचरः क्रूरकर्मा नानायातनाभिः साक्षान्मां कदर्थयति भवजन्तुं मत्तो विमुखयति तेनैव चाहं शरीरप्रासादान्निःसारितो भवजन्तुश्च निर्वृतौ नगर्यां प्रापितः स एव तत्र कारणं पुरुषः सदागमस्य केवलमुपदेशदाने व्यापारो, मनीषिणाऽभिहितं — भद्र ! किं तस्याभिधानं ?, स्पर्शनः प्राह — कथितमि - | दमार्थस्य मया - नाहं भयाकुलतया तदभिधानमुच्चारयामि, अत एव पूर्वमपि मया न युष्माकं तदाख्यातं, किं च— अतिपापिष्ठोऽसौ, ततोऽलं नामग्रहणेन, पापिष्ठजनकथा हि क्रियमाणा पापं वर्द्धयति यशो दूषयति लाघवमाधत्ते मनो विप्लावयति धर्मबुद्धिं ध्वंसयतीति, मनीषिणाऽभिहितं—तथापि महत् कुतूहलं तदभिधानश्रवणेऽस्माकं, न चास्मदभ्यर्णे वर्त्तमानेन भवता तद्भयं विधातव्यं, न च नाम ग्रहणमात्रेण किञ्चित्पापं, न ह्यग्निरित्युक्ते मुखदाहः संपद्यते, ततो विज्ञाय निर्बन्धं तरलिततारं दशापि दिशोऽवलोकयता स्पर्शनेनाभिहितं -आर्य ! यद्येवं ततः सन्तोष इति तस्य दुर्नामकस्य नाम, मनीषिणा चिन्तितं — सम्यगुपलब्धा मूलशुद्धिरस्य स्पर्शनस्य प्रभावेण, यतः सन्तोषव्यतिकर एवैकस्तत्राघटमानक आसीत् सोऽप्यधुना घटितः, सम्यङ् मया पूर्वं वितर्कितं यथा- न सुन्दरः खल्वेष स्पर्शनः प्रायेणेति, यतो विषयाभिलाषप्रयुक्तोऽयं लोकवञ्चनप्रवणः पर्यटति तदशोभन एवायं तथापि प्रतिपन्नोऽयं मया मित्रतया दर्शितो ब| हिश्छायया स्नेहभावः क्रीडितमेकत्र बहुकालं तस्मान्न युक्तोऽकाण्ड एव परित्यक्तुं केवलं विज्ञातस्वरूपेणास्य मयाऽधुना सुतरां न कर्त्तव्यो विश्रम्भो नाचरितव्यमस्यानुकूलं न समर्पणीयमात्मस्वरूपं न निवेदनीयं गुह्यं नापि दर्शनीयो बहिर्भावो, विषमप्रकृतिरेष वर्त्तते ततोऽनेन सह यापनया वर्त्तितव्यं पूर्वस्थित्यैव पर्यटितव्यं सर्वत्र सहितेन कर्त्तव्यं चात्मीयप्रयोजनबोधकमस्य वचनं, केवलमभिष्वङ्गोऽ
For Private & Personal Use Only
स्पर्शने म नीषिवि
चारः
॥ १६४ ॥
ibrary.org