________________
उपमितौ तृ. ३-प्र.
महामोहप्रस्थान
॥१६३॥
| स्तातोऽपि प्रस्थित इति ज्ञापितं समस्तनरेन्द्राणां देवेन, प्रवर्तितं निःशेषं विशेषतो बलं, ततः स्वयमेव महामोहनरेन्द्रो देवो रागकेसरी विषयाभिलाषादयः सर्वे मन्त्रिमहत्तमाः सर्वबलेन सन्तोषचरटस्योपरि निग्रहेण चलिता इतिवार्तया क्षुभितमेतत् समन्ताद्राजसचित्तं नगर, समुल्लसितोऽयं बहलः कलकलः, तदिदं भद्र ! अस्य नरेन्द्रस्य प्रस्थानप्रयोजनमिति, एतच्चातिकुतूह लिनं भवन्तमालोक्य मया निवेदितं, इतरथाऽतित्वरया मम वचनमात्रोच्चारणेऽपि नावसरोऽस्ति, यतो ममापानीके नियमः, मयाऽभिहितं-आर्य ! किमत्र वक्तव्यं ? परोपकारकरणव्यग्रा एव सत्पुरुषा भवन्ति, ते हि परे प्रियं कर्तुमुद्यताः शिथिलयन्ति स्वप्रयोजनं कुर्वन्ति स्वभुजोपार्जितद्रव्यव्ययं विषहन्ते विविधदुःखानि न गणयन्याऽऽपदं ददति मस्तकं प्रक्रामन्ति प्राणान् परप्रयोजनमेव हि ते स्वप्रयोजनं मन्यन्ते, ततश्चैवंविधैर्मदीयवचनैर्मनसि परितुष्टो नामयित्वा मदभिमुखमीषदुत्तमाङ्ग व्रजाम्यहमधुना इत्यभिधाय च कृतप्रणामो मया गतो विपाकः, मया |चिन्तितं-साधितप्रायं मयाऽधुना राजकार्य, यतः स्पर्शनस्य मूलशुद्धिमुपलभ्य भवताऽऽगन्तव्यमेतावानेव मम राजादेशः, तत्र यावन्तो-IN ऽनेन विपाकेन स्पर्शनादीनां गुणा वर्णितास्ते सर्वे तत्र स्पर्शने घटन्ते, ममानुभवसिद्धमेतत् , तस्मादेतदुपवर्णितमानुषपञ्चकस्याद्योऽसौ भविष्यति, लब्धा मया तस्य मूलशुद्धिः, केवलमेनं सन्तोषव्यतिकरमद्यापि नावगच्छामि, एतावद्वितर्कयामि-सदागमानुचर एवायं कश्चिद्भविष्यति, अन्यथा पूर्वापरविरुद्धमेतत्स्यात् , अथवा किमनेन?, गच्छामि तावत् स्वामिपादमूलं, निवेदयामि यथोपलब्धवृत्तान्तं, ततो देव एवात्र यथोचितं विज्ञास्यतीलालोच्य समागतोऽहम् , एतदाकर्ण्य देवः प्रमाणमिति, बोधेनाभिहितं-साधु प्रभाव! साधु सुन्दरमनुष्ठितं भवता, ततः सहैव प्रभावेण प्रविष्टो बोधः कुमारसमीपं, कृतप्रणामेन च निवेदितः कुमाराय समस्तोऽपि प्रभावानीतवा वृत्तान्तः, परितुष्टो मनीषी, | पूजितः प्रभावः, पृष्टोऽन्यदा मनीषिणा स्पर्शनः यदुत-भद्र ! किं भवतः सदागमेनैव तेन भवजन्तुना सुमित्रेण सह विरहः संपादितः |
॥१६३।
Jain Education
se ona
For Private & Personel Use Only
IR
elibrary.org