SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ उपमितौ SSS RSS W महामोह महिमा ॥१६१॥ न ॥२॥ वेदान्तवादिसिद्धान्ते, परमात्मा यथा किल । चराचरस्य जगतो, व्यापकत्वेन गीयते ॥ ३ ॥ महामोहस्तथैवात्र, स्ववीर्येण जगत्रये । द्वेषाद्यशेषलोकानां, व्यापकः समुदाहृतः ॥ ४॥ तत एव प्रवर्त्तन्ते, यान्ति तत्र पुनर्लयम् । सर्वे जीवाः परे पुंसि, यथा वेदान्तवादिनाम् ॥ ५॥ महामोहात्प्रवर्त्तन्ते, तथा सर्वे मदादयः । लीयन्तेऽपि च तत्रैव, परमात्मा स वर्त्तते ॥ ६॥ अन्यच्च-यद् ज्ञातपरमार्थोऽपि, बुद्ध्या सन्तोषजं सुखम् । इन्द्रियैर्बाध्यते जन्तुर्महामोहोऽत्र कारणम् ॥ ७ ॥ अधीत्य सर्वशास्त्राणि, नराः पण्डितमानिनः । | विषयेषु रताः सोऽयं, महामोहो विजृम्भते ॥ ८॥ जैनेन्द्रमततत्त्वज्ञाः, कषायवशवर्तिनः । जायन्ते यन्नरा लोके, तन्महामोहशासनम् ॥ ९ ॥ अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् । यत्तिष्ठन्ति गृहासक्ता, महामोहोऽत्र कारणम् ॥ १०॥ विश्रब्धं निजभर्तारं, परित्यज्य कुलस्त्रियः । परेषु यत्प्रवर्त्तन्ते, महामोहस्य तत्फलम् ॥ ११ ॥ विलय च महामोहः, स्ववीर्येण निराकुलः । कांश्चिद्विडम्बय|त्युचैर्यतिभावस्थितानपि ॥ १२ ॥ मनुष्यलोके पाताले, तथा देवालयेष्वपि । विलसत्येष महामोहो, गन्धहस्ती यदृच्छया ॥ १३ ॥ स वथा मित्रभावेन, गाढं विश्रब्धचेतसाम् । कुर्वन्ति वैश्चनं यच्च, महामोहोऽत्र कारणम् ॥ १४ ॥ विलय कुलमर्यादां, पारदार्येऽपि य| नराः । वर्तन्ते विलसत्येष, महामोहमहानृपः ॥ १५ ॥ यत एव समुत्पन्ना, जाताश्च गुणर्भाजनम् । प्रतिकूला गुरोस्तस्य, वशे येऽस्य | | नराधमाः ।। १६ ॥ अनार्याणि तथाऽन्यानि, यानि कार्याणि कर्हिचित् । चौर्यादीनि विलासेन, तेषामेष प्रवर्तकः ॥ १७ ॥ इत्थं प्रभूतवृत्तान्तः, परिपाल्य जगत्रयम् । वृद्धोऽहमधुना युक्तं, किं ममेति विचिन्त्य च ॥ १८॥ पार्श्वस्थितोऽपि शक्नोमि, वीर्येण परिरक्षितुम् ।। जगत्तेन वपुत्राय, राज्यं यच्छामि साम्प्रतम् ॥ १९ ॥ युग्मम् । रागकेसरिणे दत्त्वा, ततो राज्यं विचक्षणः । महामोहोऽधुना सोऽयं, १(आक्रम्य ) तु प्र. २ यथेच्छया प्र. ३ वचनं-अमुत्राहितकृदपि, प्र.४ गुरोः. ५ आत्तदीक्षाः. ६ श्रुताध्ययनादिना. ७ कानिचित् प्र० ॥१६१॥ Jain Educat i onal For Private & Personel Use Only PDainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy