SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ उपमितौ SSS RSS W महामोह महिमा ॥१६१॥ न ॥२॥ वेदान्तवादिसिद्धान्ते, परमात्मा यथा किल । चराचरस्य जगतो, व्यापकत्वेन गीयते ॥ ३ ॥ महामोहस्तथैवात्र, स्ववीर्येण जगत्रये । द्वेषाद्यशेषलोकानां, व्यापकः समुदाहृतः ॥ ४॥ तत एव प्रवर्त्तन्ते, यान्ति तत्र पुनर्लयम् । सर्वे जीवाः परे पुंसि, यथा वेदान्तवादिनाम् ॥ ५॥ महामोहात्प्रवर्त्तन्ते, तथा सर्वे मदादयः । लीयन्तेऽपि च तत्रैव, परमात्मा स वर्त्तते ॥ ६॥ अन्यच्च-यद् ज्ञातपरमार्थोऽपि, बुद्ध्या सन्तोषजं सुखम् । इन्द्रियैर्बाध्यते जन्तुर्महामोहोऽत्र कारणम् ॥ ७ ॥ अधीत्य सर्वशास्त्राणि, नराः पण्डितमानिनः । | विषयेषु रताः सोऽयं, महामोहो विजृम्भते ॥ ८॥ जैनेन्द्रमततत्त्वज्ञाः, कषायवशवर्तिनः । जायन्ते यन्नरा लोके, तन्महामोहशासनम् ॥ ९ ॥ अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् । यत्तिष्ठन्ति गृहासक्ता, महामोहोऽत्र कारणम् ॥ १०॥ विश्रब्धं निजभर्तारं, परित्यज्य कुलस्त्रियः । परेषु यत्प्रवर्त्तन्ते, महामोहस्य तत्फलम् ॥ ११ ॥ विलय च महामोहः, स्ववीर्येण निराकुलः । कांश्चिद्विडम्बय|त्युचैर्यतिभावस्थितानपि ॥ १२ ॥ मनुष्यलोके पाताले, तथा देवालयेष्वपि । विलसत्येष महामोहो, गन्धहस्ती यदृच्छया ॥ १३ ॥ स वथा मित्रभावेन, गाढं विश्रब्धचेतसाम् । कुर्वन्ति वैश्चनं यच्च, महामोहोऽत्र कारणम् ॥ १४ ॥ विलय कुलमर्यादां, पारदार्येऽपि य| नराः । वर्तन्ते विलसत्येष, महामोहमहानृपः ॥ १५ ॥ यत एव समुत्पन्ना, जाताश्च गुणर्भाजनम् । प्रतिकूला गुरोस्तस्य, वशे येऽस्य | | नराधमाः ।। १६ ॥ अनार्याणि तथाऽन्यानि, यानि कार्याणि कर्हिचित् । चौर्यादीनि विलासेन, तेषामेष प्रवर्तकः ॥ १७ ॥ इत्थं प्रभूतवृत्तान्तः, परिपाल्य जगत्रयम् । वृद्धोऽहमधुना युक्तं, किं ममेति विचिन्त्य च ॥ १८॥ पार्श्वस्थितोऽपि शक्नोमि, वीर्येण परिरक्षितुम् ।। जगत्तेन वपुत्राय, राज्यं यच्छामि साम्प्रतम् ॥ १९ ॥ युग्मम् । रागकेसरिणे दत्त्वा, ततो राज्यं विचक्षणः । महामोहोऽधुना सोऽयं, १(आक्रम्य ) तु प्र. २ यथेच्छया प्र. ३ वचनं-अमुत्राहितकृदपि, प्र.४ गुरोः. ५ आत्तदीक्षाः. ६ श्रुताध्ययनादिना. ७ कानिचित् प्र० ॥१६१॥ Jain Educat i onal For Private & Personel Use Only PDainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy