________________
उपमितौ
तृ. ३-प्र.
॥ १६० ॥
Jain Education In
|ऽयमाप्तलोकश्रुतेराकर्णितोऽद्य देवेन रागकेसरिणा स्पर्शनाद्यभिभवव्यतिकरः, ततोऽतिदुःसहमश्रुतपूर्वं च स्वपदातिपरिभववचनमाकर्ण्य को| पानलजनितरक्तलोचनयुगलेन विषमस्फुरिताधरेण करालभृकुटि भङ्गकुण्डलीकृतललाटपट्टेनाबद्धनिरन्तरस्वेदबिन्दुना निर्दयकराभिहतधरणीपृष्ठेन प्रलयज्वलनभास्वरं रूपमाविभ्रताऽमर्षवशपरिस्खलद्वचनेन देवेन रागकेसरिणाऽऽज्ञापितः परिजनः – अरे त्वरितास्ताडयत प्रयाणकपटहं सज्जीकुरुत चतुरङ्गं बलं, परिजनेनाभिहितं यदाज्ञापयति देवः, ततस्तथा देवमायास्यमानमवलोक्य विषयाभिलाषेणाभिहितं - देव ! अलमावेगेन, कियानसौ वराकः सन्तोषः स्थानमादरस्य ?, न खलु केसरी लीलादलितत्रिगण्डगलितवरकरिनिकरो हरिणं व्यापाद्यतयोद्दिश्यायस्तचित्तो भवति, देवेनाभिहितं - सखे ! सत्यमिदं, केवलं युष्मन्मानुषकदर्थनां कुर्वता दृढमुद्वेजितास्तेन पापेन सन्तोषेण, न | खलु तमनुन्मूल्य मम मनसः सुखासिका संपद्यते, मन्त्रिणाऽभिहितं देव ! स्तोकमेतत् मुच्यतां संरम्भः, ततस्तद्वचनेन मनाक् स्वस्थी - भूतो देवः, कृतमशेषं गमनोचितं, स्थापितः पुरतः स्नेहसलिलपूर्णः प्रेमाबन्धाख्यः कनककलशः उद्घोषितः केलिजल्पनामको जयजय शब्दः, गीतानि चाटुवचनादीनि मङ्गलानि प्रहतं रतिकलहनामकमुद्दामातोयवृन्दं, निर्वर्त्तितान्यङ्गरागभूषणादीनि समस्त कौतुकानि, प्रवृत्तो रथावरोहणार्थं देवः, अत्रान्तरे स्मृतमनेन - अये ! न दृष्टोऽद्यापि मया तातः, अहो मे प्रमत्तता अहो मे दुर्विनीतता अहो मे तुच्छत्वेन स्वल्पप्रयोजनेऽपि पर्याकुलता यत्तातपादवन्दनमपि विस्मृतमिति, ततो निवृत्त्य चलितस्तद्दर्शनार्थं देवो, मयाऽभिहितं — भद्र! कः पुनरस्य तातः ?, ततो विपाकेनाभिहितं - आर्य ! अतिमुग्धोऽसि, यतस्त्वमेतावदपि न जानीषे, यतोऽस्य देवस्य रागकेसरिणो बालाबलादीनामपि सुप्रतीतोऽनेकाद्भुतकर्मा भुवनत्रयप्रकटनाभिधानो महामोहो जनकः, तथाहि — महामोहो जगत्सर्व, भ्रामयत्येष लीलया । शक्रादयो जगन्नाथा, यस्य किङ्करतां गताः ॥ १ ॥ अन्येषां लङ्घयन्तीह, शौर्यावष्टम्भतो नराः । आज्ञां न तु जगत्यत्र, महामोहस्य केच
For Private & Personal Use Only
महामोहमहिमा ॥ १६०
elibrary.org