________________
उपमितौ
तृ. ३-प्र.
द्वितर्काकुलस्तिष्ठामि तावद्दृष्टो मया पर्यन्तदारुणः स्वरूपेणादर्शकः संसारवैचित्र्यस्य बोधको विदुषां निर्वेदभूमिर्विवेकिनाम् अविज्ञातस्वरूपो निर्विबेकैस्तस्यैव विषयाभिलाषस्य मन्त्रिणः संबन्धी विपाको नाम पुरुषः, ततः प्रियसंभाषणपूर्वकं पृष्टोऽसौ मया — भद्र! कथय ॥ १५९ ॥ किमस्य नरेन्द्रस्य प्रस्थानकारणं ?, कुतूहलं मे, विपाकेनाभिहितं -आर्य ! यद्येवं ततः समाकर्णय, पूर्वमिह कचिदवसरे सुगृहीतनामधेयेन
देवेन रागकेसरिणाऽभिहितोऽमात्यो यदुत —आर्य विषयाभिलाष ! तथा कथंचिद्विधेहि यथा मम समस्तमपि जगत् किङ्करतां प्रतिपद्यते, | मन्त्रिणाऽभिहितं यदाज्ञापयति देवः, ततो नान्यः कश्चिदस्य राजाविष्टप्रयोजनस्य निर्वर्त्तनक्षम इति मनसि पर्यालोच्य किं चात्रान्येन साधनेन बहुना शितेन ?, साधयिष्यन्त्येतान्येवाचिन्त्यवीर्यतया प्रस्तुतप्रयोजनमिति संजातावष्टम्भेन मन्त्रिणा गाढमनुरक्तभक्तानि विवि - धस्थानेषु निर्व्यूढ साहसानि स्वामिनि भृत्यतया लब्धजयपताकानि जनहृदयाक्षेपकरणपटूनि प्रत्यादेशः शूराणां प्रकर्षचटुलानां निकषभूमिः परवञ्चनचतुराणां परमकाष्ठा साहसिकानां निदर्शनं दुर्दान्तानां आत्मीयान्येव स्पर्शनादीनि पच गृहीतानि मानुषाणि प्रहितानि जगद्वशीकरणार्थं, ततो मया चिन्तितम् — अये ! लब्धं स्पर्शनस्य तावन्मूलोत्थानं, विपाकेनाभिहितं - ततो वितते जगति विचरद्भिस्तैर्वशी - कृतप्रायं भुवनं वर्त्तते, ग्राहितप्रायं रागकेसरिणः किङ्करतां केवलं महाशस्यसमुदायानामितिविशेष इव तेषामुपद्रवकारी समुत्थितः श्रूयते किल कश्चित् सन्तोषो नाम चरटो, निर्वाहिताश्च तान्यभिभूय किल कियन्तोऽपि लोकास्तेन, प्रवेशिताश्च देवभुक्तेरतिक्रान्तायां निर्वृतौ नगर्यामिति च श्रूयते, ततो मया चिन्तितं — व्यभिचरति मनागयमर्थो, यतोऽस्माकं समक्षमेव मनीषिबालयोः स्पर्शनेन निर्वृतौ नगर्या भवजन्तोर्गमनं सदागमबलेनाख्यातं, अयं तु स्पर्शनादीन्यभिभूय सन्तोषेण निर्वाहिता लोकाः स्थापिताञ्च निर्वृतौ नगर्यामिति कथयति, तत्कथमेतद् ?, अथवा किमनयाऽकाण्डपर्यालोचनया ?, अवहितस्तावदाकर्णयाम्यस्य वचनं, पश्चाद्विचारयिष्यामि, विपाकेनाभिहितं -- ततो
Jain Education
For Private & Personal Use Only
स्पर्शनचरिका
शः राजस
चित्ते राग केसरी रा
जा विषया भिलाषो
मन्त्री
॥ १५९ ॥
helibrary.org