SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ स्पर्शनेऽभिप्रायः उपमितौ विदधानो धारितो, मैत्रीकरणेन पुनः सुन्दरतरं, क्षीरखण्डयोगतुल्यो हि वत्सयोरनयोः सार्द्ध संबन्धः, अकुशलमालया चिन्तितं-अहो| तृ.३-प्र. मे धन्यता, भविष्यत्येतत्संबन्धेन मम यथार्थ नाम, यो ह्यस्य स्पर्शनस्यानुकूलः स ममात्यन्तवल्लभः स एव च मां वर्द्धयति पालयति मदीयस्नेहफलं चानुभवति नेतरः, बहुशोऽनुभूतपूर्वमेतन्मया, एष च मदीयसूनुरेनं प्रति मुखरागेण गाढमनुकूलो लक्ष्यते ततो भविष्यति मे ॥१५७॥ मनोरथपूर्तिरिति विचिन्त्य तया बालं प्रत्यभिहितं-वत्स! सुन्दरमनुष्ठितं, अवियोगो भवतु भवतः सुमित्रेणेति, शुभसुन्दा चिन्तितंन सुन्दरः खल्वेष मम तनयस्य पापमित्रसम्बन्धः, रिपुरेष परमार्थेन कारणमनर्थपरम्परायाः शत्रुरयं ममापि सहजोऽनुवर्त्तते कदर्थिता|ऽहमनेन बहुशः पूर्व नास्त्येव मयाऽस्य च सहावस्थानं, केवलमेतावानत्र चित्तसन्धारणाहेतुः-यदेष मदीयपुत्रोऽमुं प्रति मुखच्छायया हष्टिविकारेण च विरक्त इव लक्ष्यते, ततो न प्रभविष्यति प्रायेण ममायं पापो, यदिवा न ज्ञायते किं भविष्यति ?, विषमः खल्वेष दुरात्मा, इत्याद्यनेकविकल्पमालाकुलमानसाऽपि गम्भीरतया मौनेनैव स्थिता शुभसुन्दरी, अत्रान्तरे संजातो मध्याह्नः, उपसंहृतमास्थानं, गताः सर्वेऽपि स्वस्थानेषु, तद्दिनादारभ्य प्रवर्द्धते बालस्य स्पर्शनेन सह स्नेहसंबन्धः, स हि चकितस्तिष्ठति सर्वथा, मनीषी न गच्छति विश्रम् , | स्पर्शनस्तु सदा सन्निहिततया कुमारयोरन्तर्बहिश्च न पार्श्व मुञ्चति, ततः पर्यटन्ति ते सहिता एव नानास्थानेषु, क्रीडन्ति विविधक्रीडाभिः, ततो मनीषिणा चिन्तितं-कीदृशमनेन स्पर्शनेन सह विचरतां सर्वत्राविश्रब्धचित्तानां सुखं ?, न चैष तावदद्यापि सम्यग् लक्ष्यते कीदृशस्वरूप इति, न चाज्ञातपरमाथैरेष निर्धारयितुं संग्रहीतुं वा पार्यते, तदिदमत्र प्राप्तकालं-वेषयामि तावदस्य मूलशुद्धिं, ततो विज्ञाय यथोचितमाचरिष्यामीति स्थापितः सिद्धान्तः, ततः समाहूतो रहसि बोधो नामाङ्गरक्षः, अभिहितश्चासौ-भद्र! ममास्य स्पर्शनस्योपरि महानउ. भ. १४ला विश्रम्भः तदस्य मूलशुद्धिं सम्यगवबुध्य शीघ्रमावेदय, बोधेनाभिहितं यदाज्ञापयति कुमार इति, निर्गतो बोधः, ततोऽभ्यस्तसमस्तदेश ॥१५७॥ Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy