SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ स्पर्शनेऽभिप्रायः उपमितौ विदधानो धारितो, मैत्रीकरणेन पुनः सुन्दरतरं, क्षीरखण्डयोगतुल्यो हि वत्सयोरनयोः सार्द्ध संबन्धः, अकुशलमालया चिन्तितं-अहो| तृ.३-प्र. मे धन्यता, भविष्यत्येतत्संबन्धेन मम यथार्थ नाम, यो ह्यस्य स्पर्शनस्यानुकूलः स ममात्यन्तवल्लभः स एव च मां वर्द्धयति पालयति मदीयस्नेहफलं चानुभवति नेतरः, बहुशोऽनुभूतपूर्वमेतन्मया, एष च मदीयसूनुरेनं प्रति मुखरागेण गाढमनुकूलो लक्ष्यते ततो भविष्यति मे ॥१५७॥ मनोरथपूर्तिरिति विचिन्त्य तया बालं प्रत्यभिहितं-वत्स! सुन्दरमनुष्ठितं, अवियोगो भवतु भवतः सुमित्रेणेति, शुभसुन्दा चिन्तितंन सुन्दरः खल्वेष मम तनयस्य पापमित्रसम्बन्धः, रिपुरेष परमार्थेन कारणमनर्थपरम्परायाः शत्रुरयं ममापि सहजोऽनुवर्त्तते कदर्थिता|ऽहमनेन बहुशः पूर्व नास्त्येव मयाऽस्य च सहावस्थानं, केवलमेतावानत्र चित्तसन्धारणाहेतुः-यदेष मदीयपुत्रोऽमुं प्रति मुखच्छायया हष्टिविकारेण च विरक्त इव लक्ष्यते, ततो न प्रभविष्यति प्रायेण ममायं पापो, यदिवा न ज्ञायते किं भविष्यति ?, विषमः खल्वेष दुरात्मा, इत्याद्यनेकविकल्पमालाकुलमानसाऽपि गम्भीरतया मौनेनैव स्थिता शुभसुन्दरी, अत्रान्तरे संजातो मध्याह्नः, उपसंहृतमास्थानं, गताः सर्वेऽपि स्वस्थानेषु, तद्दिनादारभ्य प्रवर्द्धते बालस्य स्पर्शनेन सह स्नेहसंबन्धः, स हि चकितस्तिष्ठति सर्वथा, मनीषी न गच्छति विश्रम् , | स्पर्शनस्तु सदा सन्निहिततया कुमारयोरन्तर्बहिश्च न पार्श्व मुञ्चति, ततः पर्यटन्ति ते सहिता एव नानास्थानेषु, क्रीडन्ति विविधक्रीडाभिः, ततो मनीषिणा चिन्तितं-कीदृशमनेन स्पर्शनेन सह विचरतां सर्वत्राविश्रब्धचित्तानां सुखं ?, न चैष तावदद्यापि सम्यग् लक्ष्यते कीदृशस्वरूप इति, न चाज्ञातपरमाथैरेष निर्धारयितुं संग्रहीतुं वा पार्यते, तदिदमत्र प्राप्तकालं-वेषयामि तावदस्य मूलशुद्धिं, ततो विज्ञाय यथोचितमाचरिष्यामीति स्थापितः सिद्धान्तः, ततः समाहूतो रहसि बोधो नामाङ्गरक्षः, अभिहितश्चासौ-भद्र! ममास्य स्पर्शनस्योपरि महानउ. भ. १४ला विश्रम्भः तदस्य मूलशुद्धिं सम्यगवबुध्य शीघ्रमावेदय, बोधेनाभिहितं यदाज्ञापयति कुमार इति, निर्गतो बोधः, ततोऽभ्यस्तसमस्तदेश ॥१५७॥ Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy