SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ उपमितौ कन्यातत्त्वं तृ. ३-प्र. युज्यते ध्रुवम् ॥ ३॥ अन्यच्च कथ्यते किश्चिचेतसः स्वास्थ्यकारणम् । निरालम्बनतामेत्य, मा भूदैन्यं भवादृशाम् ॥४॥ तातेनाभिहितं आर्य ! साधूक्तं, समाश्वासिता वयमनेन भवता पश्चिमवचनेन, तत्कथय किं तदस्माकं चेतसः स्वास्थ्यकारणमिति, जिनमतज्ञेनाभिहितं-महाराज ! अस्त्यस्य कुमारस्य प्रच्छन्नरूपः पुण्योदयो नाम वयस्यः, स यावदस्य पार्श्ववर्ती तावदेष वैश्वानरः पापमित्रतया यं यमनर्थ कुमारस्य संपादयिष्यति स सोऽस्य प्रत्युतार्थरूपतया पर्यवस्थतीति, तदाकर्ण्य मनाक् स्वस्थीभूतस्तातः, अत्रान्तरे दिनकरमम्बरतलस्य मध्यभागमारूढं निवेदयन्नाडिकाच्छेदप्रहतपटहनादानुसारी समुत्थितः शङ्खशब्दः, पठितं कालनिवेदकेन-न क्रोधात्तेजसो वृद्धिः, | किंतु मध्यस्थभावतः । दर्शयन्निति लोकानां, सूर्यो मध्यस्थतां गतः॥१॥ तातेनाभिहितम्-अये! मध्याह्नसमयो वर्तते, ततः समुत्थातव्यमिदानीमितिकृत्वा विसर्जितो राजलोकः, पूजितौ कलाचार्यनैमित्तिकौ, प्रस्थापितौ सबहुमानं, ततो नैमित्तिकवचनादशक्यानुष्ठानमेतदितिजातनिर्णयेनापि तातेन मोहहेतुतयाऽपत्यस्नेहस्य समादिष्टो विदुरः यदुत-परीक्षितव्यो भवता कुमाराभिप्रायः, किं शक्यतेऽस्मा-8 त्पापमित्राद्वियोजयितुं कुमारो न वेति ?, विदुरेणाभिहितं यदाज्ञापयति देवः, ततः समुत्थितस्तातः, कृतं दिवसोचितं कर्त्तव्यं, द्वितीयदिने समागतो मम समीपे विदुरो, विहितप्रणामो निषण्णो मदन्तिके, पृष्टो मया-भद्र! ह्यः किनागतोऽसि ?, विदुरेण चिन्तितं-अये! समादिष्टस्तावद्हं देवेन, यथा लक्षयितव्यो भवता कुमाराभिप्रायः, ततोऽहमस्मै यत् तस्मात्साधोः सकाशादाकर्णितमासीन्मया दुर्जनसंसर्गदोषप्रतिपादकमुदाहरणं तत्कथयामि, ततो विज्ञास्यते खल्वेतदीयोऽभिसन्धिः, इत्येवं विचिन्त्य विदुरेणाभिहितम्-कुमार! किञ्चिदाक्षण्यमभूत्, मयाऽभिहितं-कीदृशं ?, विदुरेणाभिहितं-कथानकमाकर्णितं, मयाऽभिहितं-वर्णय कीदृशं तत्कथानकं ?, विदुरेणा| भिहितं-वर्णयामि, केवलमवहितेन श्रोतव्यं कुमारेण, मयाऽभिहितम्-एष दत्तावधानोऽस्मि, विदुरेणाभिहितं-अस्त्यस्यामेव मनुज तत्कथयामि, माराभिप्रायः, ततोऽहमस्मै यत् नमः किनागतोऽसि ?, विदुरेण चिन्तित तय ॥१५२॥ Jain Education a l For Private & Personel Use Only Naw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy