SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३- प्र. ॥ १५१ ॥ Jain Education In | अन्तरङ्गाणि बहिरङ्गाणि च तत्र बहिरङ्गेष्वेव वस्तुषु भवादृशां गमनाज्ञापनादिव्यापारो नान्तरङ्गेषु, एतच नगरं राजा तत्पत्नी दुहिता च सर्वमन्तरङ्गं वर्त्तते, तन्न युज्यते तत्र महत्तमप्रेषणं, तातेनाभिहितं -आर्य ! कः पुनस्तत्र प्रभवति ?, जिनमतज्ञेनाभिहितं — योऽन्तरङ्ग एव राजा, तातेनाभिहितं —आर्य ! कः पुनरसौ ?, जिनमतज्ञेनाभिहितं - महाराज ! कर्म्मपरिणामः, तस्य हि शुभपरिणामस्य कर्मपरिणामेनैव भटभुक्त्या दत्तं तन्नगरम्, अतस्तदायत्तोऽसौ वर्त्तते, तातेनाभिहितं -आर्य ! किं भवत्यसौ कर्म्मपरिणामो मादृशामभ्यर्थनाविषयो ?, जिनमतज्ञेनाभिहितं महाराज ! नैतदेवं स हि यथेष्टकारी प्रायेण नापेक्षते सत्पुरुषाभ्यर्थनां न रज्यते सदुपचारवचनेन न गृह्यते परोपरोधेन नानुकम्पते दृष्ट्वाऽप्यापद्गतं जनं केवलमसावपि कार्यं विदधानः पृच्छति महत्तमभगिनीं लोकस्थितिं पर्यालोचयति स्वभार्यां कालपरिणतिं कथयत्यात्मीयमहत्तमाय स्वभावाय अनुवर्त्तते अस्यैव नन्दिवर्द्धनकुमारस्य समस्तभवान्तरानुयायिनीं प्रच्छन्नरूपां भार्यां भवितव्यतां विभेति कियन्मात्रं नन्दिवर्द्धनकुमारवीर्यादपि स्वप्रवृत्तौ ततश्चैवंविधमन्तरङ्गपरिजनं स्वसंभावनया सम्मान्य एष कर्म्मपरिणाममहाराजः कार्यं कुर्वाणो न बहिरङ्गलोकं रटन्तमपि गणयति, किं तर्हि ?, यदात्मने रोचते तदेव विधत्ते, तस्मान्नायमभ्यर्थनोचितः, किंतु यदाऽस्य प्रतिभासिष्यते तदा स्वयमेव कुमाराय दापयिष्यति शुभपरिणामेन क्षान्तिदारिकामिति, तातेनाभिहितं -आर्य ! हतास्तर्हि वयं यतो न ज्ञायते कदाचित्त (दा त ) स्य प्रतिभासिष्यते, अस्मिंश्चानपसारिते पापमित्रे कुमारस्य समस्तगुणविफलतया न किञ्चिदस्माकं जीवतीतिकृत्वा, जिनमतज्ञेनाभिहितं -- महाराजालं विषादेन, किमत्र क्रियते ? यदीदृशमेवेदं प्रयोजनमिति, तथाहि — नरः प्रमादी शक्येऽर्थे, स्यादुपालम्भभाजनम् । अशक्यवस्तुविषये, पुरुषो नापराध्यति ॥ १ ॥ अपि च- योऽशक्येऽर्थे प्रवर्त्तेत, अनपेक्ष्य बलाबलम् । आत्मनश्च परेषां च स हास्यः स्याद्विपश्चिताम् ||२॥ तत्रैवं स्थिते कार्ये, यद्भविष्यत्तया परम् । भवतां त्यक्तचिन्तानामासितुं For Private & Personal Use Only कन्यातत्त्वं ॥ १५१ ॥ jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy