SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ |क्षान्तिमहिमा उपमितौ ॥ २०॥ अतः सम्यग्गुणाकाङ्क्षी, कः सकर्णो न तां हृदि ? । कुर्यात्कन्यां सदाकालं, सर्वकामसमर्पिकाम् ॥ २१॥ एवं च स्थितेतृ. ३-प्र. सा गुणोत्कर्षयोगेन, कन्या सर्वाङ्गसुन्दरा । अस्य वैश्वानरस्योच्चैः, प्रतिपक्षतया स्थिता ॥ २२ ॥ तस्या दर्शनमात्रेण, भीतभीतः सुवि ह्वलः । एष वैश्वानरो मन्ये, दूरतः प्रपलायते ॥ २३ ॥ निःशेषदोषपुजोऽयं, सा कन्या गुणमन्दिरम् । साक्षादग्निरयं पापः, सा पुन॥१५०॥ हिमशीतला ॥ २४ ॥ सहावस्थानमेवं हि, नानयोर्विद्यते क्वचित् । विरोधभावात्तेनैवमस्माभिरभिधीयते ॥ २५ ॥ यदैव कन्यां तां धन्यां, कुमारः परिणेष्यति । अनेन पापमित्रेण, तदा मैत्री विहास्यति ॥ २६ ॥ अत्रान्तरे चिन्तितं विदुरेण-अये! अनेन जिनमतज्ञेन नैमि-| त्तिकेनेदमभिहितं यथा चित्तसौन्दर्ये यः शुभपरिणामः तस्य या निष्पकम्पता तज्जनिता या क्षान्तिः सैवामुं नन्दिवर्द्धनकुमारस्यानेन पापमित्रेण वैश्वानरेण सह संसर्ग निवारयितुं समर्था, नान्यस्तन्निवारणे कश्चिदुपाय इति, तत्सर्वमनेन युक्तमुक्तम् , अथवा किमत्राश्चर्य ?, न हि जिनमतज्ञः कदाचिद्युक्तं भाषते, ततस्तन्निमित्तकवचनमाकर्ण्य तातेनावलोकितं पार्श्ववर्त्तिनो मतिधनस्य महामत्रिणो वदनं, स्थितोऽसौ प्रह्वतरः, अभिहितस्तातेन-आर्य! मतिधन! श्रुतमेतद्भवता?, मतिधनेनाभिहितं-देव! श्रुतं, तातेनाभिहितं-आर्य! यद्येवं ततो महदिदं मम चित्तोद्वेगकारणं, यद्येष विशिष्टजनस्पृहणीयोऽपि कुमारस्य गुणकलापः पापमित्रसम्बन्धदूषितो निष्फलः संपन्न इति, तिद् गच्छ शीघ्र प्रेषय चित्तसौन्दर्ये वचनविन्यासकुशलान् प्रधानमहत्तमान् प्राय तद्देशासम्भवीनि प्राभृतानि इति, उपदिश गच्छता ४ तेषां निरन्तरसम्बन्धकरणपटून्युपचारवचनानि, याचय कुमारार्थ शुभपरिणामं क्षान्तिदारिकामिति, मतिधनेनाभिहितं यदाज्ञापयति देव इति, निर्गन्तुं प्रवृत्तो मतिधनः, जिनमतज्ञेनाभिहितं-महाराज! अलमनेनारम्भेण, न खल्वेवंविधगमनयोग्यं तन्नगरं, तातेनाभिहितं आर्य! कथं ?, जिनमतज्ञेनाभिहितं-महाराज! समस्तान्येवात्र लोके नगरराजभार्यापुत्रमित्रादीनि वस्तूनि द्विविधानि भवन्ति, तद्यथा ॥१५॥ Jain Education a l For Private & Personel Use Only (Golaw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy