SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ |क्षान्तिमहिमा उपमितौ ॥ २०॥ अतः सम्यग्गुणाकाङ्क्षी, कः सकर्णो न तां हृदि ? । कुर्यात्कन्यां सदाकालं, सर्वकामसमर्पिकाम् ॥ २१॥ एवं च स्थितेतृ. ३-प्र. सा गुणोत्कर्षयोगेन, कन्या सर्वाङ्गसुन्दरा । अस्य वैश्वानरस्योच्चैः, प्रतिपक्षतया स्थिता ॥ २२ ॥ तस्या दर्शनमात्रेण, भीतभीतः सुवि ह्वलः । एष वैश्वानरो मन्ये, दूरतः प्रपलायते ॥ २३ ॥ निःशेषदोषपुजोऽयं, सा कन्या गुणमन्दिरम् । साक्षादग्निरयं पापः, सा पुन॥१५०॥ हिमशीतला ॥ २४ ॥ सहावस्थानमेवं हि, नानयोर्विद्यते क्वचित् । विरोधभावात्तेनैवमस्माभिरभिधीयते ॥ २५ ॥ यदैव कन्यां तां धन्यां, कुमारः परिणेष्यति । अनेन पापमित्रेण, तदा मैत्री विहास्यति ॥ २६ ॥ अत्रान्तरे चिन्तितं विदुरेण-अये! अनेन जिनमतज्ञेन नैमि-| त्तिकेनेदमभिहितं यथा चित्तसौन्दर्ये यः शुभपरिणामः तस्य या निष्पकम्पता तज्जनिता या क्षान्तिः सैवामुं नन्दिवर्द्धनकुमारस्यानेन पापमित्रेण वैश्वानरेण सह संसर्ग निवारयितुं समर्था, नान्यस्तन्निवारणे कश्चिदुपाय इति, तत्सर्वमनेन युक्तमुक्तम् , अथवा किमत्राश्चर्य ?, न हि जिनमतज्ञः कदाचिद्युक्तं भाषते, ततस्तन्निमित्तकवचनमाकर्ण्य तातेनावलोकितं पार्श्ववर्त्तिनो मतिधनस्य महामत्रिणो वदनं, स्थितोऽसौ प्रह्वतरः, अभिहितस्तातेन-आर्य! मतिधन! श्रुतमेतद्भवता?, मतिधनेनाभिहितं-देव! श्रुतं, तातेनाभिहितं-आर्य! यद्येवं ततो महदिदं मम चित्तोद्वेगकारणं, यद्येष विशिष्टजनस्पृहणीयोऽपि कुमारस्य गुणकलापः पापमित्रसम्बन्धदूषितो निष्फलः संपन्न इति, तिद् गच्छ शीघ्र प्रेषय चित्तसौन्दर्ये वचनविन्यासकुशलान् प्रधानमहत्तमान् प्राय तद्देशासम्भवीनि प्राभृतानि इति, उपदिश गच्छता ४ तेषां निरन्तरसम्बन्धकरणपटून्युपचारवचनानि, याचय कुमारार्थ शुभपरिणामं क्षान्तिदारिकामिति, मतिधनेनाभिहितं यदाज्ञापयति देव इति, निर्गन्तुं प्रवृत्तो मतिधनः, जिनमतज्ञेनाभिहितं-महाराज! अलमनेनारम्भेण, न खल्वेवंविधगमनयोग्यं तन्नगरं, तातेनाभिहितं आर्य! कथं ?, जिनमतज्ञेनाभिहितं-महाराज! समस्तान्येवात्र लोके नगरराजभार्यापुत्रमित्रादीनि वस्तूनि द्विविधानि भवन्ति, तद्यथा ॥१५॥ Jain Education a l For Private & Personel Use Only (Golaw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy