SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ उपमितौ क्षान्तिमहिमा ॥१४९॥ णेनापि निःशेषदोषमोषविधायनी ॥ १ ॥ निरीक्षते विशालाक्षी, यन्नरं किल लीलया । पण्डितैः स महात्मेतिकृत्वा गाढं प्रशस्यते ॥२॥ आलिङ्गनं पुनस्तस्या मन्ये यो लप्स्यते नरः । स सर्वनरवर्गस्य, चक्रवर्ती भविष्यति ॥ ३ ॥ अतश्चारुतरा तस्या, नान्या जगति विद्यते । प्रकर्षः सुन्दरीणां सा, विद्वद्भिस्तेन गीयते ॥४॥ सद्ध्यानकेवलज्ञानमहर्द्धिप्रशमादयः । लोकानामद्भुता भावा, ये चमत्कारकारिणः ॥५॥ ते भवन्ति भविष्यन्ति, भूताश्चानन्तशो यतः । तत्प्रसादेन सत्त्वानां, तामाराधयतां सताम् ॥ ६ ॥ युग्मम् । उत्पत्तिभूमिः सा तस्मादाश्चर्याणामुदाहता । यथा च रत्नमञ्जूषा, तथेदानीं निबोधत ॥ ७ ॥ दानशीलतपोज्ञानकुलरूपपराक्रमाः । सत्यशौचार्जवालोभवीर्यैश्वर्यादयो गुणाः ॥ ८॥ ये केचित्सुन्दरा लोके, वर्त्तन्ते रत्नरूपिणः । क्षान्तिरेव हि सर्वेषां, तेषामाधारतां गता ॥९॥ तेनासौ रत्नमजूषा, विद्वद्भिः परिकीर्तिता । शान्तिहीना गुणाः सर्वे, न शोभन्ते निराश्रयाः ॥ १० ॥ अथवा–शान्तिरेव महादानं, क्षान्तिरेव महातपः । क्षान्तिरेव महाज्ञानं, क्षान्तिरेव महादमः ।। ११ ॥ क्षान्तिरेव महाशीलं, क्षान्तिरेव महाकुलम् । क्षान्तिरेव महावीर्य, क्षान्तिरेव पराक्रमः ॥ १२ ॥ क्षान्तिरेव च सन्तोषः, क्षान्तिरिन्द्रियनिग्रहः । क्षान्तिरेव महाशौचं, क्षान्तिरेव महादया ॥ १३ ॥ शान्तिरेव महारूपं, क्षान्तिरेव महाबलम् । क्षान्तिरेव महैश्वर्य, क्षान्तिधैर्यमुदाहृता ॥ १४ ॥क्षान्तिरेव परं ब्रह्म, सत्यं क्षान्तिः प्रकीर्तिता । क्षान्तिरेव परा मुक्तिः, क्षान्तिः सर्वार्थसाधिका ॥ १५ ॥ क्षान्तिरेव जगद्वन्द्या, क्षान्तिरेव जगद्धिता । क्षान्तिरेव जगज्येष्ठा, क्षान्तिः कल्याणदायिका ॥ १६ ॥क्षान्तिरेव जगत्पूज्या, क्षान्तिः परममङ्गलम् । क्षान्तिरेवौषधं चारु, सर्वव्याधिनिबर्हणम् ॥ १७ ॥ क्षान्तिरेवारिनि शं, चतु- रङ्गं महाबलम् । किंचात्र बहुनोक्तेन ?, क्षान्तौ सर्व प्रतिष्ठितम् ॥ १८ ॥ अत एव तु सा कन्या, मुनिलोकमनोहरा । कुर्यादीदृशरूपायां, को न चित्तं सचेतनः ? १९ ॥ अन्यच्च-यस्य चित्तं समारोहेद्विलसन्ती खलीलया । सा कन्या धन्यतां प्राप्य, सोऽपि तद्रूपतां व्रजेत् ॥१४९॥ Jain Educational For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy