________________
उपमितौ तृ. ३-अ.
शान्तिकन्यावृतिः
॥
कस्तातेन, तुष्टश्चेतसा, दापितमासनं, कृतमुचितकरणीयं, कथितो व्यतिकरः, ततो बुद्धिनाडीसंचारेण निरूप्य तेनाभिहितं-महाराज! न विद्यतेऽत्रान्यः कश्चिदुपायः, एक एवात्र परमुपायो विद्यते, दुर्लभश्चासौ प्रायेण, तातेनाभिहितं कीदृशः स इति कथयत्वार्यः, जितमतज्ञेनाभिहितं-महाराजाकर्णय, अस्ति रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां कारणं कल्याणपरम्पराया दुर्लभं मन्दभागधे- वैश्चित्तसौन्दर्य नाम नगरं, तथाहि-वसतां तत्र लोकानां, नगरे पुण्यकर्मणाम् । रागादिचरटाः सर्वे, जायन्ते नैव बाधकाः॥ १ ॥ यतश्च क्षुत्पिपासाद्या, बाधन्ते तत्र नो जनम् । ततस्तदुच्यते धीरैः, सर्वोपद्रववर्जितम् ॥२॥ ज्ञानादिभाजनं लोकस्तदशेनैव जायते । कलाकलापकौशल्यं, न ततोऽन्यत्र विद्यते ॥ ३ ॥ भवन्त्यौदार्यगाम्भीर्यधैर्यवीर्यादयो गुणाः । वसतां तत्र तत्सर्वगुणस्थानमतो मतम् ॥ ४ ॥ यतश्च वसतां तत्र, धन्यानां संप्रवर्धते । उत्तरोत्तरभावेन, विशिष्टा सुखपद्धतिः ॥ ५ ॥ न च संपद्यते तस्याः, प्रतिपातः कदाचन । कल्याणपद्धतेर्हेतुरतस्तन्नगरं मतम् ॥ ६ ॥ सर्वोपद्रवनिर्मुक्तं, समस्तगुणभूषितम् । कल्याणपद्धतेहेतुर्यत एव च तत्पुरम् ॥ ७ ॥ अत एव सदानन्दं, तत्सपुण्यैर्निषेवितम् । नगरं चित्तसौन्दर्य, मन्दभाग्यैः सुदुर्लभम् ॥ ८॥ अर्थतश्चतुर्भिः कलापकम् । तत्र च नगरे|ऽस्ति हितकारी सर्वलोकानां कृतोद्योगो दुष्टनिग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्णः कोशदण्डसमुदयेन शुभपरिणामो नाम राजा, | यतोऽसौ सर्वलोकानां, चित्तसन्तापवारकः। तथा संपर्कमात्रेण, महानन्दविधायकः ॥ १ ॥ सदनुष्ठानमार्गेऽपि, जन्तूनां स प्रवर्तकः ।
अतो धीरजनोंके, हितकारी निगद्यते ॥ २॥ रागद्वेषमहामोहक्रोधलोभमदभ्रमाः । कामेाशोकदैन्याद्या, ये चान्ये दुःखहेतवः ॥ ३॥ |दुष्टचेष्टतया नित्यं, लोकसन्तापकारिणः । तेषामुद्दलनं राजा, स कुर्वन्नवतिष्ठते ॥ ४॥ युग्मम् । ज्ञानवैराग्यसंतोषत्यागसौजन्यलक्षणाः। ये चान्ये जनताऽऽहादकारिणः शिष्टसंमताः॥५॥ तेषां स राजा सततं, परिपालनतत्परः । आस्ते निःशेषकर्त्तव्यव्यापारविमुखः सदा
--NCC-444
॥१४७॥
Join Education
For Private Personel Use Only
jainelibrary.org