________________
उपमिती तृ. ३-अ.
॥१४६॥
-भद्र ! वेदक परित्यजेदं चन्दनरससेकशीतलं तालवृन्तं, न मामेष बहिस्तापो बाधते, गच्छ समाह्वय कुमारं, येनापनयामि तस्य पापमित्रसंसर्गवारणेन दुःसहमात्मनोऽन्तस्तापमिति, ततो विमुच्य तालवृन्तं क्षितिनिहितजानुकरमस्तकेन वेदकेनाभिहितं यदाज्ञापयति विश्वानरदेवः, किन्तु महाप्रयोजनमपेक्ष्य भविष्याम्यहमस्थापितमहत्तमः, ततो न तत्र देवेन कोपः करणीयः, तातेनाभिहितं-भद्र! हितभाषिणि मैत्रीत्याकः कोपावसरो?, वदतु विवक्षितं भद्रः, वेदकेनाभिहितं देव! यद्येवं ततः कुमारपरिचयादेवावधारितमिदं मया, यदुतायं वैश्वानरोड-13|
गोद्यमः न्तरङ्गभूतः कुमारस्य वयस्यो, न शक्योऽधुना केनाप्यपसारयितुं, गृहीतः कुमारेणात्यर्थ हितबन्धुबुद्ध्या, न शक्नोति तद्विरहे क्षणमप्यासितुं कुमारः, यतो न लभते धृतिं गृह्यते रणरणकेन मन्यते तृणतुल्यमनेन रहितमात्मानं, ततो यद्यप्ययं कुमारो वैश्वानरसंसर्गत्यागं प्रति | किश्चिदुच्यते ततोऽहमेवं तर्कयामि महान्तमुद्वेगं कुर्यात् आत्मघातादिकं वा विद्ध्यात् अन्यद्वा किञ्चिदकाण्डविडरमनन्तरं संपादयेदित्यतो नाबार्थे किंचिद्वक्तं कुमारमर्हति देवः, बुद्धिसमुद्रेणोक्तं देव! सत्यमेव सर्वमिदं यदावेदितं वेदकेन, तथाहि-वयमपि कु-द मारस्य पापमित्रसंबन्धवारणे गाढमुयुक्ताः सकलकालमास्महे, चिन्तितं चास्माभिः-यद्ययं कुमारोऽनेन वैश्वानरपापमित्रेण वियुज्येत | ततः सत्यं नन्दिवर्द्धनः स्यात् , केवलमीदृशं कथञ्चिदनयोर्गाढनिरूढं प्रेम येन न शक्यतेऽधुना कुमारोऽनर्थभीरुतया वियोजनं विधातुमित्यतोऽशक्यानुष्ठानरूपं कुमारस्य वैश्वानरेण सह मैत्रीवारणमिति मन्यामहे, तातेनाभिहितम्-आर्य! कः पुनरत्रोपायो भविष्यति?,KI
बुद्धिसमुद्रेणोक्तम्-अतिगहनमेतत् , वयमपि न जानीमो, विदुरेणाभिहितम्-देव! श्रूयतेऽत्र कश्चिदतीतानागतवर्तमानपदार्थवेदी स-1 |मागतो जिनमतज्ञो नाम सिद्धपुत्रो महानैमित्तिकः, स कदाचिदत्रोपायं लक्षयति, तातेनाभिहितं-साध्वभिहितं भद्र! साधु, शीघ्रं स-8॥१४६ ॥ माहूयतां स भवता, विदुरेणाभिहितं यदाज्ञापयति देव इति, निर्गतो विदुरः, समागतो नैमित्तिकेन सह स्तोकवेलया, दृष्टो नैमित्ति
JainEducationala
For Private
Personel Use Only
ow.jainelibrary.org