________________
उपमितौ
तू. ३-प्र.
॥ १४५ ॥
उ. भ. १३
- " स्वीकृतमनेन समस्तमपि लिपिज्ञानं स्वयंपृष्टमिव गणितं उत्पादितमिवात्मना व्याकरणं क्षेत्रीभूतमस्य ज्योतिषं सात्मीभूतमष्टाङ्ग" महानिमित्तं व्याख्यातमन्येभ्यश्छन्दोऽनेन अभ्यस्तं नृत्तं शिक्षितं गेयं प्रणयिनीवास्य हस्तशिक्षा वयस्य इव धनुर्वेदः मित्रमिव वै“द्यकं निर्देशकारीव धातुवादः अनुचराणीव नरलक्षणादीनि आधेयविक्रेयाणि पत्रच्छेद्यादीनि किं बहुना ? नास्ति सा काचित्कला या " कुमारमासाद्य न प्राप्ता परां काष्ठामिति,” ततः प्रादुर्भवदानन्दोदकपरिपूरितनयनयुगलेनाभिहितं तातेन - आर्य ! एवमेतत्, किमत्राश्चर्यम् ? किं वाऽऽर्ये कृतोद्योगे न संपद्यते कुमारस्य ?, धन्यः कुमारो यस्य युष्मादृशा गुरवः, बुद्धिसमुद्रेणोक्तं देव ! मा मैवमादिश, केऽत्र वयं ?, युष्मदनुभावोऽयं, तातेनाभिहितं - आर्य ! किमनेनोपचारवचसा ?, युष्मत्प्रसादेनैवास्मदानन्दसन्दर्भदायिकां संप्राप्तः कुमारः सकलगुणभाजनताम्, बुद्धिसमुद्रेणोक्तं—यद्येवं ततो देव ! कर्त्तव्येषु नियुक्तैरनुचरैर्न वञ्चनीयाः स्वामिन इति पर्यालोचनया किञ्चिदेवं विज्ञापयितुमिच्छामि, तच्च युक्तमयुक्तं [अतोऽर्हसि शक्तुमसाधुसाधु ] वा क्षन्तुमर्हति देवो, यतो यथार्थ मनोहरं च दुर्लभं वचनं, तातेनाभिहितं —वदत्वार्य:, यथावस्थितवचने कोऽवसरोऽक्षमायाः ?, बुद्धिसमुद्रेणोक्तं — यद्येवं ततो यदादिष्टं देवेन यथा सकलगुणभाजनतां संप्राप्तः कुमार इति तथैव स्वाभाविकं कुमारस्य स्वरूपं प्रतीत्य नास्त्यत्र सन्देहः, किन्तु सकलमपि कुमारस्य गुणसन्दोहं कलङ्केनेव शशधरं कण्टकेनेव तामरसं कार्पण्येनेव वित्तनिचयं नैर्लज्येनेव स्त्रीजनं भीरुत्वेनेव पुरुषवर्गं परोपतापेनेव धर्म्म वैश्वानरसंपर्केण दूषितमहमवगच्छामि, यतः सकलस्यापि कलाकलापकौशलस्य प्रशमोऽलङ्करणम्, एष तु वैश्वानरः पापमित्रतया सन्निहितः सन्नात्मीयसामर्थ्येन तं प्रशमं कुमारस्य नाशयति, कुमारस्तु महामोहवशात्परमार्थवैरिणमप्येनं वैश्वानरं परमोपकारिणमाकलयति, तदनेनेदृशेन पापमित्रेण यस्य प्रतिहतं ज्ञानसारं प्रशमामृतं कुमारस्य तस्य निष्फलो गुणप्राग्भार इति, ततस्तदाकर्ण्य तातो वज्राहत इव गृहीतो महादुःखेन, ततस्तातेनाभिहितं
Jain Education International
For Private & Personal Use Only
अविवेकि तापुत्रो वैश्वानरः
॥ १४५ ॥
nwww.jainelibrary.org