SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ १४३ ॥ Jain Education, रिता अहो कौशलं अहो वत्सलता अहो स्थिरानुरागः यदेष समालिङ्गनद्वारेण मम सवीर्यतां संपाद्य मामेवं सर्वत्राप्रतिहताशं जनयति, न च मां क्षणमपि मुञ्चतीति, तदेष मे परमो बन्धुरेष परमं शरीरमेष मे सर्वस्वमेष जीवितमेष एव मे परं तत्त्वमिति, अनेन रहित: पुरुपोऽकिञ्चित्करतया तृणपुरुषान्न विशिष्यते, ततश्चैवंविधभावनया संजातो मम वैश्वानरस्योपरि स्थिरतानुरागः, अन्यदा रहसि प्रवृत्ते तेन सह विश्रम्भजल्पे मयाऽभिहितं वरमित्र ! किमनेन (मत्र) बहुना जल्पितेन ?, युष्मदायत्ता मम प्राणाः तदेते भवता यथेष्टं नियोजनीया इति, ततश्चिन्तितं वैश्वानरेण - अये ! सफलो मे परिश्रमो यदेष मम वशवर्त्ती वर्त्तते, दर्शितोऽनेनैवं वदता निर्भरोऽनुरागः, अनुरक्ताश्च प्राणिनः समाकर्णयन्ति वचनं गृह्णन्ति निर्विकल्पं प्रवर्त्तन्ते तत्र भावेन संपादयन्ति क्रियया, तदिदमत्र प्राप्तकालमिति विचिन्त्य तेनाभिहितं कुमार ! एवमेतत् कः खल्वत्र सन्देहः ?, यच्च गृहीतहृदयसद्भावानामपि मादृशां पुरतः कुमारोऽप्येवं मन्त्रयति महाप्रसादोऽत्र कारणं, स हि हर्षोत्कर्षात्ज्ञातार्थमपि वाक्यं बलाद्भाणयति, तत्किमनेन ?, करोमि कुमारस्याहमक्षयान् प्राणान् एष एव मे तन्नियोगो, मयाऽभिहितम् — कथं ?, तेनोक्तं जानाम्यहं किञ्चिद्रसायनं, मयाऽभिहितं - करोतु वरवयस्य:, तेनोक्तं - यदाज्ञापयति कुमारः, ततः कृतानि तेन क्रूरचित्ताभिधानानि वटकानि, समुपनीतानि मे रहसि वर्त्तमानस्य, अभिहितश्चाहं — कुमार ! एतानि मदीयसामर्थ्यप्रभवानि वर्त्तन्ते वटकानि कुर्वन्त्युपयुज्यमानानि वीर्योत्कर्षसंपादनेन पुरुषस्य सर्वं यथेष्टं दीर्घतरं चायुष्कं तस्माद् गृहाण त्वमेतानि अत्रान्तरे लघुध्वनिना कक्षान्तरस्थितेन केनाप्यभिहितम् — भविष्यति तवाभिमते स्थाने, कोऽत्र सन्देहः ?, न श्रुतं तन्मया श्रुतं वैश्वानरेण, ततः संपत्स्यते मम समीहितं यास्यत्येष वटकोपयोगेन महानरके भविष्यति तत्र गतस्यास्य दीर्घतरमायुष्कं कथमन्यथैवंविधः शब्दो ?, महानरक एव ममाभिहितं स्थानमितिभावनया तुष्टोऽसौ चित्तेन, मयाऽभिहितं - किं न संपद्यते मे भवादृशि वरमित्रेऽनुकूले ?, तदाकर्ण्य For Private & Personal Use Only अविवेकितापुत्रो वैश्वानरः ॥ १४३ ॥ jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy