SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ १४१ ॥ Jain Educatio पुरेष वैश्वानरः, तथाप्येवमविशेषज्ञोऽयं नन्दिवर्द्धनो येन मामनुरक्तमवधीर्यानेन समस्तदोषराशिरूपेणात्मनोऽपि परमार्थवैरिणा सह मैत्रीं करोति, अथवा किमत्राचर्य ?, न लक्षयन्त्येव मूढाः पापमित्रस्वरूपं नावबुध्यन्ते तत्सङ्गतेर्दुरन्ततां न बहु मन्यन्ते तत्सङ्गनिवारकं सदुपदेष्टारं परित्यजन्ति तत्कृते सन्मित्राणि प्रतिपद्यन्ते तद्वशेन कुमार्ग, ते हि यदि परं धावन्तोऽन्धा इव कुड्यादौ गाढं स्फोटलाभेन | पापमित्रसङ्गान्निवर्त्तन्ते न परोपदेशेनेति मूढश्चायं नन्दिवर्द्धनकुमारो योऽनेनापि सह साङ्गत्यं विधत्ते, तत्किं ममानेन निवारितेन ?, निर्दिष्टश्वाहमस्य भवितव्यतया सहचरत्वेन, आवर्जितश्चाहमनेन करिरूपतायां वर्त्तमानेन वेदनासमुद्घातेऽपि निश्चलतया माध्यस्थ्यभावनया, तस्मादेव नन्दिवर्द्धनकुमारः पापमित्रसङ्गतिपरोऽपि नाकाण्ड एव मम तावन्मोक्तुं युक्त इति पर्यालोच्यासौ पुण्योदयो रुष्टोऽपि मम पार्श्वे तदा प्रच्छन्नरूपतया सदा तिष्ठत्येव, जाताञ्चान्येऽपि बहिरङ्गा मम बहवो वयस्याः, ततस्तैः सार्द्धमनेकक्रीडाभिः क्रीडन्नहं प्रवर्द्धितुं प्रवृत्तः, प्रस्तुते च क्रीडने मत्तो महत्तमा अपि डिम्भाः प्रधानकुलजा अपि पराक्रमवन्तोऽपि मां वैश्वानराधिष्ठितमवलोक्य भयेन कम्पन्ते गच्छन्ति च मम प्रणतिं कुर्वन्ति चाटुकर्माणि प्रतिपद्यन्ते पदातिभावं धावन्ति पुरतो न प्रतिकूलयन्ति मद्वचनं, किं बहुना ? लिखितादपि मत्तो बिभ्यतीति, तस्य च सर्वस्यापि व्यतिकरस्याचिन्त्यमाहात्म्यतया प्रच्छन्नरूपोऽपि पुण्योदयः कारणं मम तु महामोहवशात्तदा चेतसि परिस्फुरितं यदुत — तदेते बृहत्तमा अपि डिम्भा ममैवं कुर्वाणा वर्त्तन्ते सोऽयमस्य वरमित्रस्य वैश्वानरस्य गुणः, यतोऽयं सन्निहितः सन्नात्मीयसामर्थ्येन वर्द्धयति मम तेजस्वितां करोत्युत्साहं प्रोज्ज्वलयति बलं संपादयत्योजः स्थिरीकरोति मनः जनयति धीरतां विधत्ते शौण्डीरतां, किं बहुना ?, समस्तपुरुषगुणैर्मामेष योजयति, ततोऽनया भावनया संजातो वल्लभतरो मे वैश्वानरः, ततः संजातोऽह्मष्टवार्षिकः, समुत्पन्ना पद्मनृपतेश्चिन्ता ' ग्राह्यन्तामधुना कुमारः कला इति' ततो निरूपितः प्रशस्तदिवसः, समाहूतः प्र tional For Private & Personal Use Only अविवेकि पुत्रो वैश्वानरः ॥ १४१ ॥ www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy