SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ उपमिती द्वि.२-प्र. ॥१३७॥ गात्रभारेण, मूछितः क्षणमात्रं, लब्धा कथञ्चिच्चेतना, यावन्न चालयितुं शक्नोमि शरीरं, प्रादुर्भूता च सर्वाङ्गीणा तीव्रवेदना, ततः संजातो | मे पश्चात्तापः, चिन्तितं च मया-यथेदृशमेव बुध्य(युज्य)ते मादृशानां, ये प्रतिपन्नभृत्यभावं चिरकालपरिचितमुपकारकमापन्निमग्नमनु- (युज्य)मरक्तमात्मवर्ग परित्यज्य कृतघ्नतया कुक्षिम्भरितामुररीकुर्वन्तः पलायन्ते, अहो मे निर्लज्जता, मय्यपि किल यूथाधिपतिशब्दो रूढः, तत्किम नुष्यायुरुनेन?, अधुना स्वचेष्टितानुरूपमेवेदं मम संपन्नम्, अतो न मया मनसि खेदो विधेयः, ततोऽनया भावनया प्रतिपन्नं मया मनाङ माध्य- पार्जनं स्थ्यं, तितिक्षिता भवन्ती तीब्रापि वेदना, स्थितस्तदवस्थः सप्तरात्रं यावत् , अत्रान्तरे तुष्टा ममोपरि भवितव्यता, ततस्तयाऽभिहितम्-५ & साध्वार्यपुत्र! साधु शोभनस्तेऽध्यवसायः, तितिक्षितं भवता परमं दुःखं, तुष्टाऽहमिदानीं भवतोऽनेन चेष्टितेन, नयामि भवन्तं नगरा-4 न्तरे, मयाऽभिहितम्-यदाज्ञापयति देवी, ततो दर्शितस्तया सुन्दराकारः पुरुषः, अभिहितश्चाहं यथाऽऽर्यपुत्र! तुष्टया मयाऽयमधुना भवतः सहायो निरूपितः पुण्योदयो नाम पुरुषः, तदनेन सह भवता गन्तव्यं, मयाऽभिहितम्-यदाज्ञापयति देवी, अत्रान्तरे जीर्णा मे पुण्योदयः पूर्वदत्ता गुटिका, ततः प्रयुक्ताऽन्या गुटिका भवितव्यतया, अभिहितं च तया, यथाऽऽर्यपुत्र! तत्र गतस्यायं पुण्योदयस्ते प्रच्छन्नरूपः स-IN होदरः सहचरश्च भविष्यतीति । एवं च वदति संसारिजीवे भव्यपुरुषः प्रज्ञाविशालायाः कर्णाभ्यणे स्थित्वेदमाह-यथाम्ब! कोऽयं पुरुषः, किं वाऽनेन कथयितुमारब्धं ? कानि चामूनि असंव्यवहारादीनि नगराणि? का चेयं गुटिका? यैकैकवासके प्रयुक्ता सती नानाविधरूपाणि संकेतो- . कारयति विविधसुखदुःखादिकार्याणि दर्शयति, कथं वा पुरुषस्येयन्तं कालमेकस्यावस्थितिः, कथं चासंभावनीयानि मनुष्यस्य सतः कृमि-| पिपीलिकादीनि रूपाणि जायेरन , तदिदं सकलमपूर्वाऽऽलजालकल्पमस्य तस्करस्य चरितं मम प्रतिभासते, तत्कथयाम्बिके ! कोऽस्य भावार्थ इति?, प्रज्ञाविशालयोक्तम्-वत्स! यदस्येदानीन्तनं विशेषरूपमुपलभ्यते तन्नानेन कथितम् , किं तर्हि ? सामान्यरूपेण संसारिजीवनामायं ॥१३७॥ 1951 द्वोधः Jain Education Dional For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy