SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ उपमिती द्वि.२-प्र. ॥१३७॥ गात्रभारेण, मूछितः क्षणमात्रं, लब्धा कथञ्चिच्चेतना, यावन्न चालयितुं शक्नोमि शरीरं, प्रादुर्भूता च सर्वाङ्गीणा तीव्रवेदना, ततः संजातो | मे पश्चात्तापः, चिन्तितं च मया-यथेदृशमेव बुध्य(युज्य)ते मादृशानां, ये प्रतिपन्नभृत्यभावं चिरकालपरिचितमुपकारकमापन्निमग्नमनु- (युज्य)मरक्तमात्मवर्ग परित्यज्य कृतघ्नतया कुक्षिम्भरितामुररीकुर्वन्तः पलायन्ते, अहो मे निर्लज्जता, मय्यपि किल यूथाधिपतिशब्दो रूढः, तत्किम नुष्यायुरुनेन?, अधुना स्वचेष्टितानुरूपमेवेदं मम संपन्नम्, अतो न मया मनसि खेदो विधेयः, ततोऽनया भावनया प्रतिपन्नं मया मनाङ माध्य- पार्जनं स्थ्यं, तितिक्षिता भवन्ती तीब्रापि वेदना, स्थितस्तदवस्थः सप्तरात्रं यावत् , अत्रान्तरे तुष्टा ममोपरि भवितव्यता, ततस्तयाऽभिहितम्-५ & साध्वार्यपुत्र! साधु शोभनस्तेऽध्यवसायः, तितिक्षितं भवता परमं दुःखं, तुष्टाऽहमिदानीं भवतोऽनेन चेष्टितेन, नयामि भवन्तं नगरा-4 न्तरे, मयाऽभिहितम्-यदाज्ञापयति देवी, ततो दर्शितस्तया सुन्दराकारः पुरुषः, अभिहितश्चाहं यथाऽऽर्यपुत्र! तुष्टया मयाऽयमधुना भवतः सहायो निरूपितः पुण्योदयो नाम पुरुषः, तदनेन सह भवता गन्तव्यं, मयाऽभिहितम्-यदाज्ञापयति देवी, अत्रान्तरे जीर्णा मे पुण्योदयः पूर्वदत्ता गुटिका, ततः प्रयुक्ताऽन्या गुटिका भवितव्यतया, अभिहितं च तया, यथाऽऽर्यपुत्र! तत्र गतस्यायं पुण्योदयस्ते प्रच्छन्नरूपः स-IN होदरः सहचरश्च भविष्यतीति । एवं च वदति संसारिजीवे भव्यपुरुषः प्रज्ञाविशालायाः कर्णाभ्यणे स्थित्वेदमाह-यथाम्ब! कोऽयं पुरुषः, किं वाऽनेन कथयितुमारब्धं ? कानि चामूनि असंव्यवहारादीनि नगराणि? का चेयं गुटिका? यैकैकवासके प्रयुक्ता सती नानाविधरूपाणि संकेतो- . कारयति विविधसुखदुःखादिकार्याणि दर्शयति, कथं वा पुरुषस्येयन्तं कालमेकस्यावस्थितिः, कथं चासंभावनीयानि मनुष्यस्य सतः कृमि-| पिपीलिकादीनि रूपाणि जायेरन , तदिदं सकलमपूर्वाऽऽलजालकल्पमस्य तस्करस्य चरितं मम प्रतिभासते, तत्कथयाम्बिके ! कोऽस्य भावार्थ इति?, प्रज्ञाविशालयोक्तम्-वत्स! यदस्येदानीन्तनं विशेषरूपमुपलभ्यते तन्नानेन कथितम् , किं तर्हि ? सामान्यरूपेण संसारिजीवनामायं ॥१३७॥ 1951 द्वोधः Jain Education Dional For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy